________________
१६६
स्वोपज्ञलघुवृत्तिविभूषितं
? निनाय । अनृच्छ्रपोरिति किम् ? आनछु , प्रोणुनाव ।।४८।।
जाग्रुष-समिन्धेर्नवा ॥३॥४॥४९॥ एभ्यो धातुभ्य: परस्या: परोक्षाया आम् वा स्यात् , आमन्ताच्च परे कृभ्वस्तय: परोक्षान्ता अनुप्रयुज्यन्ते। जागराञ्चकार , जागराम्बभूव , जागरामास , जजागार ; ओषाञ्चकार , उवोष ; संमिन्धाञ्चक्रे , समीधे ॥४९।।
भी-ही-भृ-होस्तिव्वत् ।३।४॥५०॥ एभ्य: परस्याः परोक्षाया आम् वा स्यात् , स च तिव्वत् , आमन्ताच्च परे कृभ्वस्तय: परोक्षान्ता अनु प्रयुज्यन्ते । बिभयाञ्चकार , बिभयाम्बभूव , बिभयामास , बिभाय ; जिह्वयाञ्चकार , जिह्राय ; बिभराञ्चकार , बभार ; जुहवाञ्चकार , जुहाव ॥५०॥
वेत्तेः कित् ।३।४५१॥ वेत्ते: परस्याः परोक्षाया आम् किद् वा स्याद् , आमन्ताच्च कृभ्वस्तय: परोक्षान्ता अनु प्रयुज्यन्ते । विदाञ्चकार , विवेद ॥५१॥
पञ्चम्याः कृग् ।३।४।५२॥ वेत्तेः परस्याः पञ्चम्या: किदाम् वा स्यात् , आमन्ताच्च परः पञ्चम्यन्त: कृगनु प्रयुज्यते । विदाङ्करोतु , वेत्तु ।।५२।
सिजद्यतन्याम् ।३॥४५३॥ अद्यतन्यां परस्यां धातोः परः सिच् स्यानित्यम् । अनैषीत् ।।५३।।
स्पृश-मृश-कृष-तृप-दृपो वा ।३।४।५४॥ एभ्योऽद्यतन्यां सिज् वा स्यात् । अस्प्राक्षीत् , अस्पृक्षत् ; अम्राक्षीत् , अमृक्षत् ; अक्राक्षीत् , अकृक्षत् ; अत्राप्सीत् , अतृपत् ; अद्राप्सीत् , अदृपत् ॥५४॥
ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक् ।३॥४॥५५॥ हशिडन्तान्नाम्युपान्त्याददृशोऽनिटोऽद्यतन्यां सक् स्यात् । अधुक्षत् , अविक्षत् । ह-शिट इति किम् ? अभैत्सीत् । नाम्युपान्त्यादिति किम् ? अधाक्षीत् । अदृश इति किम् ? अद्राक्षीत् । अनिट इति किम् ? अकोषीत् ।।५।। १. समिधांचक्रे पार J3 ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org