________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
णिज्बहुलं नाम्नः कृगादिषु | ३ | ४|४२ ||
कृगादीनां धातूनामर्थे नानो णिच् बहुलं स्यात् । मुण्डं करोति मुण्डयति च्छात्रम्, पटुमाचष्टे पटयति, वृक्षं रोपयति वृक्षयति कृतं गृह्णाति कृतयति
,
।।४२।।
व्रताद् भुजि- तन्निवृत्त्योः | ३|४|४३॥
व्रतं शास्त्रितो नियमः, व्रताद् भुज्यर्थात् तन्निवृत्त्यर्थाच्च कृगादिष्वर्थेषु णिज्बहुलम् स्यात् । पयो व्रतयति, सावद्याऽन्नं व्रतयति ||४३|| सत्या - sर्थ- वेदस्याः | ३ | ४ |४४ ||
एषां णिच्सन्नियोगे आ: स्यात् । सत्यापयति, अर्थापयति, वेदापयति
118811
श्वेताश्वा-ऽश्वतर-गालोडिता ऽऽह्वरकस्याऽश्व-तरेत-कलुक्
|३|४|४५॥
एषां णिज्योगे यथासंख्यमश्वादेः शब्दस्य लुक् स्यात् । श्वेतयति, अश्वयति गालोडयति, आह्वरयति ||४५|| धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् | ३ | ४|४६ ॥
7
"
अनेकस्वराद्धातोः परस्याः परोक्षाया: स्थाने आम् स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु पश्चादनन्तरं प्रयुज्यन्ते । चकासाञ्चकार, चकासाम्बभूव चकासामास । अनेकस्वरादिति किम् ? पपाच । अनुर्विपर्यास-व्यवहितनिवृत्त्यर्थः तेन चकारचकासाम्, ईहांचैत्रश्चक्रे इत्यादि न स्यात् ।
?
दया - sया - ssस् - कासः | ३|४|४७॥
एभ्यो धातुभ्यः परस्याः परोक्षाया आम् स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । दयाञ्चक्रे, दयाम्बभूव, दयामास ; पलायाञ्चक्रे आसाञ्चक्रे, कासाञ्चक्रे ||४७||
गुरुनाम्यादेरनृच्छूर्णोः | ३ | ४|४८ ||
7
गुरुर्नाम्यादिर्यस्य तस्माद्धातोः ऋच्छ्रणुवर्जात् परस्याः परोक्षाया आम् स्यात् , आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । ईहाञ्चक्रे ईहाम्बभूव ईहामास । गुर्विति किम् ? इयेष । नामीति किम् ? आनचं । आदीति किम्
1
Jain Education International
१६५
For Private & Personal Use Only
?
www.jainelibrary.org