SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १६२ स्वोपज्ञलघुवृत्तिविभूषितं एभ्यो धातुभ्य: स्वार्थे णिच् स्यात् । चोरयति । पदयते ।।१७।। युजादेर्नवा ।३।४।१८॥ एभ्य: स्वार्थे णिच् वा स्यात् । योजयति , योजति । साहयति , सहति ॥१८॥ भूङः प्राप्तौ णिङ् ।३।४।१९॥ भुंवः प्राप्त्यर्थाण्णिङ् वा स्यात् । भावयते , भवते । प्राप्ताविति किम् ? भवति ।।१९।। प्रयोक्तृव्यापारे णिग् ।३।४॥२०॥ कुर्वन्तं यः प्रयुङ्क्ते तद्व्यापारे वाच्ये धातोर्णिग् वा स्यात् । कारयति , भिक्षा वासयति , राजानमागमयति , कंसंघातयति , पुष्येण चन्द्रं योजयति , उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति ॥२०॥ ___ तुमर्हादिच्छायां सन्नतत्सनः ।३।४।२१॥ यो धातुरिषे: कर्म इषिणैव च समानकर्तृकः स तुमर्हः , तस्मादिच्छायामर्थे सन् वा स्यात् , न त्विच्छासन्नन्तात् । चिकीर्षति । तुमर्हादिति किम् ? यानेनेच्छति , भुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ? भोक्तुं याति । अतत्सन इति किम् ? चिकीर्षितुमिच्छति । तदिति किम् ? जुगुप्सिषते ॥२१।। द्वितीयायाः काम्यः ।३॥४॥२२॥ द्वितीयान्तादिच्छायां काम्यो वा स्यात् । इदंकाम्यति । द्वितीयाया इति किम् ? इंष्टः पुत्रः ।।२२।। अमाव्ययात् क्यन् च ॥३॥४॥२३॥ मान्ता-ऽव्ययाभ्यामन्यस्माद् द्वितीयान्तादिच्छायां क्यन् काम्यश्च वा स्यात् । पुत्रीयति , पुत्रकाम्यति । अमाव्ययादिति किम् ? इदमिच्छति , स्वरिच्छति ॥२३॥ आधाराच्चोपमानादाचारे ॥३॥४॥२४॥ अमाव्ययादुपमानाद् द्वितीयान्तादाधाराच्चाऽऽचारार्थे क्यन् वा स्यात्। पुत्रीयति च्छात्रम् , प्रासादीयति कुट्याम् ।।२४|| कर्तुः किप् , गल्भ-क्लीब-होडात्तु ङित् ।३।४।२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy