________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१६१
किम् ? कण्डू: ।।८।। ___व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा ।३।४।९॥
गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन संपत्तिः फलातिरेको वा भृशत्वम् , प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनाऽऽवृत्तिराभीक्ष्ण्यम् , तद्विशिष्टार्थवृत्तेर्धातोर्व्यञ्जनादेरेकस्वराद् यङ् वा स्यात् । पापच्यते । व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि ।।९।।
- अटयर्त्ति-सूत्रि-मूत्रि-सूच्यशूर्णोः ।३।४।१०॥ एभ्यो भृशाऽऽभीक्ष्ण्यार्थवृत्तिभ्यो यङ् स्यात् । अटाट्यते , अरार्यते , सोसूत्र्यते , मोमूत्र्यते , सोसूच्यते , अशाश्यते , प्रोर्णोनूयते ॥१०॥
गत्यर्थात् कुटिले ।३।४।११॥ व्यञ्जनादेरेकस्वराद् गत्यर्थात् कुटिले एवार्थे वर्तमानाद् धातोर्यङ् स्यात् । चङ्क्रम्यते । कुटिल इति किम् ? भृशं क्रामति ।।११।। ।
- गृ-लुप-सद-चर-जप-जभ-दश-दहो गर्थे ।३।४।१२॥ गार्थेभ्य एव एभ्यो यङ् स्यात् । निजेगिल्यते , लोलुप्यते , सासद्यते , चञ्चूर्यते , जञ्जप्यते , जजभ्यते दन्दश्यते , दन्दह्यते । गद्य इति किम् ? साधु जपति , भृशं निगिरति ॥१२॥
न गृणा-शुभ-रुचः ।३।४।१३॥ एभ्यो यङ् न स्यात् । निन्द्यं गृणाति , भृशं शोभते , भृशं रोचते ।।१३।।
बहुलं लुप् ।३।४।१४॥ यङो लुप् बहुलं स्यात् । बोभूयते , बोभवीति । बहुलवचनात् क्वचिन्न भवति-लोलूया , पोपूया ॥१४॥
अचि ।३।४।१५॥ यङोऽचि परे लुप् स्यात् । चेच्यः ॥१५॥
नोतः ।३।४।१६॥ उदन्ताद् विहितस्य यङोऽचि लुब् न स्यात् । रोरूयः ॥१६।।
चुरादिभ्यो णिच् ।३।४।१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org