________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१६३
___ कर्तुरु मानान्नाम्न आचारेऽर्थे क्विप् वा स्यात् , गल्भ-क्लीब-होडेभ्यस्तु स एव ङित् । अश्वति , गल्भते , क्लीबते , होडते ॥२५||
क्यङ् ।३।४।२६॥ कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यात् । हंसायते ।।२६।।
सो वा लुक् च ।३।४।२७॥ सन्तात् कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यादन्तस्य च सो वा लुक् । पयायते , पयस्यते ॥२७॥
ओजोऽप्सरसः ॥३॥४॥२८॥ आभ्यां कर्तुपमानाभ्यामाचारे क्यङ् वा स्यात् , सश्च लुक् । ओजायते , अप्सरायते ।।२८||
व्यर्थे भृशादेः स्तोः ।३।४।२९॥ भृशादेः कर्तुइच्व्यर्थे क्यङ् वा स्यात् , यथासम्भवं स्तोर्लुक् च । भृशायते , उन्मनायते , वेहायते । कर्तुरित्येव-अभृशम्भृशं करोति । व्यर्थ इति किम् ? भृशो भवति ।।२९।।
डाच्-लोहितादिभ्यः पित् ।३।४॥३०॥ डाजन्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्च्व्यर्थे क्यङ् षित् स्यात् । पटपटायति , पटपटायते ; लोहितायति , लोहितायते । कर्तुरित्येव-अपटपटा पटपटा करोति । व्यर्थ इत्येव-लोहितो भवति ।।३०॥
___ कष्ट-कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे ।३।४।३१॥
एभ्यश्चतुर्थ्यन्तेभ्य: पापवृत्तिभ्यः क्रमणेऽर्थे क्यङ् स्यात् । कष्टायते , कक्षायते , कृच्छ्रायते , सत्रायते , गहनायते । चतुर्थीति किम् ? रिपुः कष्टं क्रामति । पाप इति किम् ? कष्टाय तपसे क्रामति ।।३१।।
रोमन्थाद् व्याप्यादुचर्वणे ।३।४।३२॥ अभ्यवहृतं द्रव्यं रोमन्थः , उद्गीर्य चर्वणम् उच्चर्वणम् , अस्मिन्नर्थे रोमन्थात् कर्मण: क्यङ् वा स्यात् । रोमन्थायते गौः । उच्चर्वण इति किम् ? कीटो रोमन्थं वर्त्तयति ॥३२॥ १. उन्मनायते P2, P1 सं, पा४,५ J3 विना नास्ति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org