SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १५४ स्वोपज्ञलघुवृत्तिविभूषितं , अश्वेन संचिचरिषते ।।७४॥ आमः कृगः ।३।३।७५॥ आम: परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव कर्त्तर्यात्मनेपदं स्यात् , भवति न भवति चेति विधिनिषेधावतिदिश्यते। ईहाञ्चक्रे , बिभयाञ्चकार । कृग इति किम् ? ईक्षामास ।।७५।। गन्धना-ऽवक्षेप-सेवा-साहस-प्रतियत्न-प्रकथनोपयोगे ।३।३।७६॥ एतदर्थात् कृग: कर्त्तर्यात्मनेपदं स्यात् । गन्धनं द्रोहेण परदोषोद्घाटनम् , उत्कुरुते। अवक्षेपः कुत्सनम् , दुर्वृत्तानवकुरुते। सेवा अनुवृत्ति:-महामात्रानुपकुरुते । साहसम् अविमृश्य प्रवृत्तिः , परदारान् प्रकुरुते । प्रतियत्नः गुणान्तराऽऽधानम् , एधोदकस्योपस्कुरुते । प्रकथनम् -जनवादान् प्रकुरुते। उपयोगः धर्मादौ विनियोगः , शतं प्रकुरुते ॥७६॥ अधेः प्रसहने ।३।३।७७॥ अधे: परात् कृग: प्रसहनार्थात् कर्त्तर्यात्मनेपदं स्यात् । प्रसहनं पराभिभव: परेणापराजयो वा , तं हाऽधिचक्रे । प्रसहन इति किम् ? तमधिकरोति ।।७७|| दीप्ति-ज्ञान-यत्न-विमत्युपसंभाषोपमन्त्रणे वदः ।३।३।७८॥ एष्वर्थेषु गम्येषु वदेः कर्त्तर्यात्मनेपदं स्यात् । दीप्तिः भासनम् , वदते विद्वान् स्याद्वादे । ज्ञान -वदते धीमांस्तत्त्वार्थे । यत्न -तपसि वदते । नानामतिर्विमतिः , धर्मे विवदन्ते । उपसंभाष उपसान्त्वनम् , कर्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनम् , कुलभार्यामुपवदते ।।७८।।। व्यक्तवाचां सहोक्तौ ।३।३।७९॥ व्यक्तवाचो रूढ्या मनुष्यादयस्तेषां संभूयोच्चारणार्थाद् वदेः कर्त्तर्यात्मनेपदं स्यात् । संप्रवदन्ते ग्राम्या: । व्यक्तवाचामिति किम् ? संप्रवदन्ति शुकाः । सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति ।।७९।। विवादे वा ।३।३।८०॥ विरुद्धार्थो वादो विवाद: , व्यक्तवाचां विवादरूपसहोक्तयर्थाद् वद: कर्त्तर्यात्मने १. अनुवृत्तिः P2 मध्य एव वर्तते बृहद्वृत्तौ च ॥ २. वदः पार P3 विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy