________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१५३ वर्तमानात् स्थ: कर्त्तर्यात्मनेपदं स्यात् । तिष्ठते कन्या च्छात्रेभ्यः , त्वयि तिष्ठते विवादः ॥६४।।
प्रतिज्ञायाम् ।३।३॥६५॥ अभ्युपगमार्थात् स्थ: कर्त्तर्यात्मनेपदं स्यात् । नित्यं शब्दमातिष्ठते ॥६५।।
समो गिरः ।३।३।६६॥ संपूर्वाद् गिरः प्रतिज्ञार्थात् कर्त्तर्यात्मनेपदं स्यात् । स्याद्वादं सङ्गिरते ॥६६।।
अवात् ।३।३।६७॥ अवाद् गिर: कर्त्तर्यात्मनेपदं स्यात् । अवगिरते ॥६७।।
निह्नवे ज्ञः ।३।३।६८॥ निह्नवः अपलापः , तद्वृत्तेज: कर्त्तर्यात्मनेपदं स्यात् । शतमपजानीते ॥६८।।
सं-प्रतेरस्मृतौ ।३।३।६९।। स्मृतेरन्यार्थात् संप्रतिभ्यां पराज्ज्ञः कर्त्तर्यात्मनेपदं स्यात् । शतं संजानीते प्रतिजानीते वा । अस्मृताविति किम् ? मातु: संजानाति ।।६९।।
अननोः सनः ।३।३।७०॥ सन्नन्ताज्ज्ञ: कर्त्तर्यात्मनेपदं स्यात् , न त्वनो: परात् । धर्मं जिज्ञासते । अननोरिति किम् ? धर्ममनुजिज्ञासति ।।७०।।
श्रुवोऽनाङ्-प्रतेः ।३।३।७१। सन्नन्ताच्छृणोते: कर्त्तर्यात्मनेपदं स्यात् , न त्वाप्रतिभ्यां परात् । शुश्रूषते गुरून् । अनामतेरिति किम् ? आशुश्रूषति , प्रतिशुश्रूषति ।।७१।।
स्मृ-दृशः ।३।३।७२॥ आभ्यां सन्नन्ताभ्यां कर्त्तर्यात्मनेपदं स्यात् । सुस्मूर्षते , दिदृक्षते ॥७२।।
शको जिज्ञासायाम् ।३।३।७३॥ शको ज्ञानानुसंहितार्थात् सन्नन्तात् कर्त्तर्यात्मनेपदं स्यात् । विद्या: शिक्षते । जिज्ञासायामिति किम् ? शिक्षति ॥७३॥
प्राग्वत् ।३।३।७४॥ सन: पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्त्तर्यात्मनेपदं स्यात् । शिशयिषते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org