________________
१५२
स्पर्द्ध इति किम् ? गामाह्वयति ||५६ ||
स्वोपज्ञलघुवृत्तिविभूषितं
सं-नि-वेः | ३|३|५७॥
एभ्यो ह्वयतेः कर्त्तर्यात्मनेपदं स्यात् । संह्वयते निह्वयते विह्वयते ॥ ५७||
उपात् ।३।३।५८॥
7
उपाद् ह्वयतेः कर्त्तर्यात्मनेपदं स्यात् । उपह्वयते ॥ ५८|| यमः स्वीकारे | ३ | ३॥५९॥
1
उपाद् यमेः स्वीकारार्थात् कर्त्तर्यात्मनेपदं स्यात् । कन्यामुपयच्छते उपायंस्त महास्त्राणि । च्चिनिर्देशः किम् ? शाटकानुपयच्छति || ५९ ||
देवार्चा - मैत्री - सङ्गम- पथिकर्तृक- मन्त्रकरणे स्थः | ३ | ३६० ॥
एतदर्थाद् उपपूर्वात् तिष्ठतेः कर्त्तर्यात्मनेपदं स्यात् । देवार्चा - जिनेन्द्रमुपतिष्ठते | मैत्री - रथिकानुपतिष्ठते । सङ्गम - यमुना गङ्गामुपतिष्ठते । पन्थाः कर्त्ता यस्य तत्र - स्रुघ्नमुपतिष्ठते पन्थाः । मन्त्रः करणं यस्य तत्र ऐन्द्रा गार्हपत्यमुपतिष्ठते
||६९||
वा लिप्सायाम् | ३ | ३|६१॥
उपात् स्थो लिप्सायां गम्यायां कर्त्तर्यात्मनेपदं वा स्यात् । भिक्षुर्दातूकुलमुपतिष्ठते, उपतिष्ठति वा ||६१ ||
,
उदोऽनूर्ध्वेहे ।३।३।६२॥
अनूर्ध्वा या चेष्टा तदर्थाद् उत्पूर्वात् स्थः कर्त्तर्यात्मनेपदं स्यात् । मुक्ताबुत्तिष्ठते । अनूर्ध्वेति किम् ? आसनादुत्तिष्ठति । इहेति किम् ? ग्रामाच्छतमुत्तिष्ठति ||६२|| सं-वि-प्रा-ऽवात् ।३।३।६३॥
एभ्यः परात् स्थः कर्त्तर्यात्मनेपदं स्यात् । संतिष्ठते, वितिष्ठते, प्रतिष्ठते अवतिष्ठते ||६३||
Jain Education International
ज्ञीप्सा - स्थेये || ३ | ३|६४ ॥
ज्ञीप्सा आत्मप्रकाशनम्, स्थेयः सभ्यः ज्ञीप्सायां स्थेयविषयार्थे च
,
१. मन्त्रः करणं यस्य अर्थस्य स मन्त्रकरणः तत्र J1 || २. आत्मनः प्रका J P1मू०
॥
For Private & Personal Use Only
www.jainelibrary.org