________________
श्रीसिद्धहेमचन्दशनक्तुशासनम् ।
१५१
कर्त्तर्यात्मनेपदं स्यात् । शास्त्रेऽस्य क्रमते बुद्धिः , सूत्राय क्रमते , क्रमन्तेऽस्मिन् योगा: ॥४८||
परोपात् ।३।३।४९॥ आभ्यामेव परात् क्रमेवृत्त्याद्यर्थात् कर्त्तर्यात्मनेपदं स्यात् । पराक्रमते , उपक्रमते । परोपादिति किम् ? अनुक्रामति । वृत्त्यादावित्येव-पराक्रामति ।।४९।।
वेः स्वार्थे ।३।३।५०॥ स्वार्थः पादविक्षेपः , तदर्थाद् विपूर्वात् क्रमे: कतर्यात्मनेपदं स्यात् । साधु विक्रमते गजः । स्वार्थ इति किम् ? गजेन विक्रामति ।।५०।।
प्रोपादारम्भे ।३।३।५१॥ __आरम्भार्थात् प्रोपाभ्यां परात् क्रमे: कर्त्तर्यात्मनेपदं स्यात् । प्रक्रमते , उपक्रमते भोक्तुम् । आरम्भ इति किम् ? प्रक्रामति , यातीत्यर्थः ।।५।।
आङो ज्योतिरुद्गमे ।३।३।५२॥ आङ: परात् क्रमेश्चन्द्राद्युद्गमार्थात् कर्त्तर्यात्मनेपदं स्यात् । आक्रमते चन्द्रः सूर्यो वा । ज्योतिरुद्गम इति किम् ? आक्रामति बटुः कुतुपम् , धूम आक्रामति ||५२।।
दागोऽस्वास्यप्रसार-विकासे ।३॥३॥५३॥ स्वास्यप्रसार-विकासाभ्यामन्यार्थाद् आङ्पूर्वाद् दाग: कर्त्तर्यात्मनेपदं स्यात् । विद्यामादत्ते । स्वास्यादिवर्जनं किम् ? उष्ट्रो मुखं व्याददाति , कूलं व्याददाति ॥५३॥
नु-प्रच्छः ।३।३।५४॥ आपूर्वान्नौते: प्रच्छेश्च कर्त्तर्यात्मनेपदं स्यात् । आनुते शृगाल: , आपृच्छते गुरून् ।।५४||
गमेः क्षान्तौ ।३।३।५५॥ कालहरणार्थाद् गमयतेरापर्वात् कर्त्तर्यात्मनेपदं स्यात् । आगमयते गुरुम् , कञ्चित् कालं प्रतीक्षते । क्षान्ताविति किम् ? विद्यामागमयति ॥५५।।
ह्रः स्पर्द्ध ।३।३॥५६॥ आङ्पूर्वाद् ह्वयते: स्पर्द्ध गम्ये कर्त्तर्यात्मनेपदं स्यात् । मल्लो मल्लमाह्वयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org