SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५० स्वोपज्ञलघुवृत्तिविभूषितं । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्यु विनयति । अमूर्तेति किम् ? गहुं विनयति । आप्येति किम् ? बुद्ध्या विनयति ॥४०॥ शदेः शिति ।३।३॥४१॥ शिद्विषयात् शदेः कर्त्तर्यात्मनेपदं स्यात् । शीयते । शितीति किम् ? शत्स्यति ॥४१|| म्रियतेरद्यतन्याशिषि च ।३।३।४२॥ अतोऽद्यतन्याशीविषयाच्छिद्विषयाच कर्त्तर्यात्मनेपदं स्यात् । अमृत , मृषीष्ट , म्रियते । अद्यतन्याशिषि चेति किम् ? ममार ।।४२।। क्यङ्गो नवा ।३।३।४३॥ क्यमन्तात् कर्त्तर्यात्मनेपदं वा स्यात् । निद्रायति , निद्रायते ।।४३।। द्युद्भ्योऽद्यतन्याम् ।३।३।४४॥ द्युतादिभ्योऽद्यतनीविषये कर्त्तर्यात्मनेपदं वा स्यात् । व्यद्युतत् , व्यद्योतिष्ट ; अरुचत् , अरोचिष्ट । अद्यतन्यामिति किम् ? द्योतते ॥४४।। वृद्भ्यः स्य-सनोः ।३।३।४५॥ वृदादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्त्तर्यात्मनेपदं वा स्यात् । वर्त्यति , वर्तिष्यते ; विवृत्सति , विवर्त्तिषते । स्य-सनोरिति किम् ? वर्त्तते ॥४५॥ कृपः श्वस्तन्याम् ।३।३।४६॥ कृपे: श्वस्तनीविषये कर्त्तर्यात्मनेपदं वा स्यात् । कल्प्तासि , कल्पितासे ॥४६|| क्रमोऽनुपसर्गात् ।३।३।४७॥ अंत: कर्त्तर्यात्मनेपदं वा स्यात् । क्रमते , क्रामति ॥४७|| वृत्ति-सर्ग-तायने ।३।३।४८॥ वृत्तिः अप्रतिबन्धः , सर्गः उत्साह: , तायनं स्फीतता , एतवृत्तेः क्रमे १. म्रियते[:] अद्य पार || २. अनुपसर्गादतः कर्त P2 । अविद्यमानोपसर्गात् कर्त J3 ।। ३. इत: परम् ‘अनुपसर्गादिति किम् ? अनुक्रामति' इति J3 मध्येऽधिक: पाठ: ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy