________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१४७
। ते , आते , अन्ते ; से , आथे , ध्वे ; ए , वहे , महे । एवं सर्वासु |॥२०॥ तत् साप्या-ऽनाप्यात् कर्म-भावे , कृत्य-क्त-खलाश्च ।३।३।२१॥
तद् आत्मनेपदं कृत्य-क्त-खलाश्च प्रत्यया: सकर्मकाद्धातोः कर्मणि , अकर्मकादविवक्षितकर्मकाच्च भावे स्युः । क्रियते कटश्चैत्रेण , चक्राण: , क्रियमाण: , भूयते त्वया , भूयमानम् , क्रियते , मृदु पच्यते , कार्यः कर्त्तव्य: करणीय: देयः कृत्य: कटस्त्वया , शयितव्यम् , शयनीयम् , शेयम् , कार्यम् , कर्त्तव्यम् , करणीयम् , देयम् , कृत्यं त्वया , कृतः कट: , शयितम् , कृतं त्वया ; सुकर: कटस्त्वया , सुशयम् , सुकरं त्वया, सुकटंकराणि वीरणानि , ईषदाढ्यम्भवं भवता , सुज्ञानं तत्त्वं मुनिना , सुग्लानं दीनेन ; मास आस्यते , मासमास्यते ॥२१॥
इङितः कर्तरि ।३॥३॥२२॥ इदितो ङितश्च धातो: कर्त्तर्यात्मनेपदम् स्यात् । एधते , एधमानः , शेते. , शयान: ।।२२।।
क्रियाव्यतिहारेऽगति-हिंसा-शब्दार्थ-हसो हृ-वहश्चाऽनन्योन्यार्थे ।३।३।२३॥
अन्यचिकीर्षिताया: क्रियाया अन्येन हरणं करणम् =क्रियाव्यतिहार: , तदर्थाद् गति-हिंसा-शब्दार्थ-हस्वर्जाद् धातोर्ह-वहिभ्यां च कर्त्तर्यात्मनेपदम् स्यात् , न त्वन्योन्येतरेतर-परस्परशब्दयोगे । व्यतिलुनते , व्यतिहरन्ते , व्यतिवहन्ते भारम् । क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत् , चैत्रस्य धान्यं व्यतिलुनन्ति । गत्यर्थादिवर्जनं किम् ? व्यतिसर्पन्ति , व्यतिहिंसन्ति , व्यतिजल्पन्ति , व्यतिहसन्ति । अनन्योन्यार्थ इति किम् ? परस्परस्य व्यतिलुनन्ति । कर्त्तरीत्येवतेन भावकर्मणो: पूर्वेणैव गत्यर्थादिभ्योऽपि स्यात् , व्यतिगम्यन्ते ग्रामा: ।।२३।।
निविशः ।३।३।२४॥ नेर्विश: कर्त्तर्यात्मनेपदं स्यात् । निविशते ॥२४॥
उपसर्गादस्योहो वा ।३।३।२५॥ उपसर्गात् पराभ्यामस्यत्यूहिभ्याम् कर्त्तर्यात्मनेपदं वा स्यात् । विपर्यस्यते ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org