SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १४८ स्वोपज्ञलघुवृत्तिविभूषितं विपर्यस्यति ; समूहते , समूहति ।।२५|| __उत्-स्वराद् युजेरयज्ञतत्पात्रे ।३।३।२६॥ उद: स्वरान्ताच्चोपसर्गात् पराद् युनक्तेः कर्त्तर्यात्मनेपदं स्यात् , न चेद् यज्ञे यत् तत्पात्रं तद्विषयो युज्यर्थ: स्यात् । उद्युङ्क्ते , उपयुते । उत्स्वरादिति किम् ? संयुनक्ति । अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ।।२६।। परि-व्यवात् क्रियः ।३।३।२७॥ एभ्य उपसर्गेभ्यः परात् क्रीणाते: कर्त्तर्यात्मनेपदं स्यात् । परिक्रीणीते , विक्रीणीते , अवक्रीणीते । उपसर्गादित्येव- उपरि क्रीणाति ।।२७|| परा-वेर्जेः ।३।३।२८॥ आभ्यां पराजयते: कर्त्तर्यात्मनेपदं स्यात् । पराजयते , विजयते ॥२८।। समः क्ष्णोः ।३।३।२९॥ सम: परात् क्ष्णौते: कर्त्तर्यात्मनेपदं स्यात् । संक्ष्णुते शस्त्रम् ।।२९।। अपस्किरः ।३।३।३०॥ अपात् किरते: सस्सट्कात् कर्त्तर्यात्मनेपदम् स्यात् । अपस्किरते वृषभो हृष्टः । स्सनिर्देश: किम् ? अपकिरति ॥३०॥ उदश्वरः साप्यात् ।३।३।३१॥ उत्पूर्वाच्चरे: सकर्मकात् कर्त्तर्यात्मनेपदं स्यात् । मार्गमुच्चरते । साप्यादिति किम् ? धूम उच्चरति ।।३१।। समस्तृतीयया ।३।३॥३२॥ सम्पूर्वाच्चरेस्तृतीयान्तेन योगे कर्त्तर्यात्मनेपदं स्यात् । अश्वेन सञ्चरते । तृतीययेति किम् ? उभौ लोकौ सञ्चरसि ॥३२।। क्रीडोऽकूजने ।३।३॥३३॥ १. इतः परं केवलं J3 मध्ये 'उपसर्गाभ्यामित्येव - सेना परा जयति , वनं बहुवि जयति' इति पाठोऽधिको दृश्यते ।। २. इतः परं 'सम इति किम् ? क्ष्णौति । उपसर्गादित्येव- आयसं क्ष्णौति' इत्यधिकः पाठो J3 मध्ये दृश्यते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy