SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १४६ स्वोपज्ञलघुवृत्तिविभूषितं भविष्यन्ती- स्यति स्यतस् स्यन्ति , स्यसि स्यथस् स्यथ , स्यामि स्यावस् स्यामस् ; स्यते स्येते स्यन्ते , स्यसे स्येथे स्यध्वे , स्ये स्यावहे स्यामहे ।३।३॥१५॥ इमानि वचनानि भविष्यन्ती स्युः ।।१५।। क्रियातिपत्तिः- स्यत् स्यताम् स्यन् , स्यस् स्यतम् स्यत , स्यम् स्याव स्याम ; स्यत स्येताम् स्यन्त , स्यथास् स्येथाम् स्यध्वम् , स्ये स्यावहि स्यामहि ।३।३॥१६॥ इमानि वचनानि क्रियातिपत्तिः स्यु: ।।१६।। . त्रीणि त्रीण्यन्ययुष्मदस्मदि ।३।३॥१७॥ . सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि , अन्यस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे च वाच्ये यथाक्रमं स्युः । स पचति , तौ पचत: , ते पचन्ति । पचते , पचेते , पचन्ते । त्वं पचसि , युवां पचथः , यूयं पचथ । पचसे , पचेथे , पचध्ये । अहं पचामि , आवां पचाव: , वयं पचामः । पचे , पचावहे , पचामहे । एवं सर्वासु । द्वययोगे त्रययोगे च पराश्रयमेव वचनम् । स च त्वं च पचथ: , स च त्वं च अहं च पचामः ॥१७|| एक-द्वि-बहुषु ।३।३।१८॥ अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येक-द्वि-बहुष्वर्थेषु स्युः । स पचति , तौ पचतः , ते पचन्तीत्यादि ।।१८।। नवाऽऽद्यानि शतृ-कसू च परस्मैपदम् ।३।३।१९।। सर्वविभक्तीनामाद्यानि नव नव वचनानि शतृ-कसू च परस्मैपदानि स्युः । तिव् , तस् , अन्ति ; सिव् , थस् , थ ; मिव् वस् , मस् । एवं सर्वासु ॥१९॥ पराणि काना-ऽऽनशौ चाऽऽत्मनेपदम् ।३।३।२०॥ सर्वविभक्तीनां पराणि नव नव वचनानि कानानशौ चाऽऽत्मनेपदानि स्युः १. यथाक्रमं स्युः पा१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy