SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १४३ दृगादावुत्तरपदे इदम्-किमौ यथासङ्ख्यम् ईत्-कीरूपौ स्याताम् । ईदृक् , ईदृश: , ईदृक्षः ; कीदृक् , कीदृशः , कीदृक्षः ॥१५३।। अनञः क्त्वो यप् ।३।२।१५४॥ नञोऽन्यस्मादव्ययात् पूर्वपदात् परं यदुत्तरपदं तदवयवस्य क्त्वो यप् स्यात् । प्रकृत्य । अनत्र इति किम् ? अकृत्वा , परमकृत्वा । उत्तरपदस्येत्येव-अलं कृत्वा ।।१५४॥ पृषोदरादयः ।३।२।१५५॥ एते साधव: स्यु: । पृषोदरः , बलाहकः ॥१५५॥ वाऽवाऽप्योस्तनि-क्री धाग-नहोर्व-पी ।३।२।१५६॥ अवस्योपसर्गस्य तनिक्रियोरपेश्च धाग्-नहोः परयोर्यथासंख्यं व-पी वा स्याताम् । वतंसः , अवतंस: ; वक्रयः , अवक्रय: ; पिहितम् , अपिहितम् ; पिनद्धम् , अपिनद्धम् ।।१५६।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य द्वितीय: पाद: समाप्तः ॥३१२।। श्रीमद्वल्लभराजस्य , प्रतापः कोऽपि दुःसहः । प्रसरन् वैरिभूपेषु दीर्घनिद्रामकल्पयत् ।।१०।। १. बलाहकः मयूर महिषः पा१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy