SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १४४ स्वोपज्ञलघुवृत्तिविभूषितं तूंतीयः पादः [ अथाऽऽख्यातप्रकरणम् ] वृद्धिराऽऽरैदौत् ।३।३॥१॥ आ आर् ऐ औ , एते प्रत्येकं वृद्धिः स्युः । मार्टि , कार्यम् , नायक: , औपगवः ||१|| ____ गुणोऽरेदोत् ।३।३।२॥ एते प्रत्येकं गुण: स्युः । करोति , चेता , स्तोता ।।२।। क्रियार्थो धातुः ।३।३॥३॥ कृतिः क्रिया पूर्वापरीभूता , साऽर्थो यस्य स धातुः स्यात् । भवति , अत्ति , गोपायति , जुगुप्सते , पापच्यते , पुत्रकाम्यति , मुण्डयति , जवनः ।।३।। न प्रादिप्रत्ययः ।३।३॥४॥ प्रादिर्धातोरवयवो न स्यात् , ततः पर एव धातुरित्यर्थः , न चेत् ततः परः प्रत्ययः । अभ्यमनायत , प्रासादीयत् । प्रादिरिति किम् ? अमहापुत्रीयत् । अप्रत्यय इति किम् ? औत्सुकायत ।।४।। अवौ दा-धौ दा ।३।३।५॥ दाधारूपौ धातू अवितौ दा स्याताम् । दाम् -प्रणिदाता । देङ्-प्रणिदयते । डुदांग् - प्रणिददाति । दों - प्रणिद्यति । ट्धे - प्रणिधयति । डुधांग् -प्रणिदधाति । अवाविति किम् ? दांव् -दातं बर्हिः । दैव् -अवदातं मुखम् ।।५।। ___ वर्तमाना-तिव् तस् अन्ति , सिव् थस् थ , मिव् वस् मस् ; ते आते अन्ते , से आथे ध्वे , ए वहे महे ॥३॥३॥६॥ इमानि वचनानि वर्तमाना स्युः ।।६।। __ सप्तमी-यात् याताम् युस् , यास् यातम् यात , याम् याव याम ; ईत ईयाताम् ईरन् , ईथास् ईयाथाम् ईध्वम् , ईय ईवहि ईमहि ।३।३॥७॥ १. ३।३।११- त आरभ्य ५।४।९०। पर्यन्तमस्य संशोधने लघुवृत्ते: इमे हस्तलिखिता आदर्शा: सम्प्रयुक्ता:- पा१,२,३,४,५ P1,2,3, J2,3 ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy