SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १४२ स्वोपज्ञलघुवृत्तिविभूषितं उत्तरपदे परे बहुव्रीहौ सहस्य सः संज्ञायाम् स्यात् । साश्वत्थं वनम् । अन्यार्थ इत्येव-सहदेवः कुरुः ॥१४४|| __ अदृश्या-ऽधिके ।३।२।१४५॥ ___ अदृश्यं परोक्षम् , अधिकम् अधिरूढम् , तदर्थयोरुत्तरपदयोर्बहुव्रीहौ सहस्य स: स्यात् । साग्नि: कपोतः , सद्रोणा खारी ।।१४५।। अकालेऽव्ययीभावे ।३।२।१४६॥ अकालवाचिन्युत्तरपदे सहस्याव्ययीभावे स: स्यात् । सब्रह्म साधूनाम् । अकाल इति किम् ? सहपूर्वाह्नं शेते । अव्ययीभाव इति किम् सहयुध्वा ॥१४६।। - ग्रन्थान्ते ।३।२।१४७॥ एतद्वाच्युत्तरपदे सहस्याव्ययीभावे स: स्यात् । सकलं ज्योतिषमधीते ॥१४७|| नाऽऽशिष्यगो-वत्स-हले ।३।२।१४८॥ गवादिवर्जे उत्तरपदे आशिषि गम्यायां सहस्य सो न स्यात् । स्वस्ति गुरवे सहशिष्याय । आशिषीति किम् ? सपुत्रः । गवादिवर्जनं किम् ? स्वस्ति तुभ्यं सगवे , सहगवे; सवत्साय , सहवत्साय ; सहलाय , सहहलाय ।।१४८।। समानस्य धर्मादिषु ।३।२।१४९॥ धर्मादावुत्तरपदे समानस्य स: स्यात् । सधर्मा , सनामा ।।१४९।। सब्रह्मचारी।३।२।१५०॥ अयं निपात्यते ॥१५०॥ दृक्-दृश-दृक्षे ।३।२।१५१॥ एषूत्तरपदेषु समानस्य सः स्यात् । सदृक् , सदृशः , सदृक्षः ।।१५१|| अन्य-त्यदादेराः ।३।२।१५२॥ अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आ: स्यात् । अन्यादृक् , अन्यादृश: , अन्यादृक्षः ; त्या दृक् , त्यादृशः , त्यादृक्षः ; अस्मादृक् , अस्मादृशः , अस्मादृक्षः ॥१५२।। इदं-किमीत्-की।३।२।१५३॥ १. तादृक् तादृशः तादृक्षः खं२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy