________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
आभ्यां पर: करणे उत्तरपदे मोऽन्तः स्यात् । भद्रकरणम् , उष्णंकरणम् ॥११६।।
नवाऽखित्कृदन्ते रात्रेः ।३।२।११७॥ खिद्वर्जे कृदन्ते उत्तरपदे परे रात्रेर्मोऽन्तो वा स्यात् । रात्रिश्चरः , रात्रिचर: । खिद्वर्जनं किम् ? रात्रिंमन्यमहः । कृदन्त इति किम् ? रात्रिसुखम् । अन्तग्रहणं किम् ? रात्रयिता ॥११७॥
धेनोभव्यायाम् ।३।२।११८॥ धेनोभव्यायामुत्तरपदे मोऽन्तो वा स्यात् । धेनुंभव्या , धेनुभव्या ।।११८।।
अषष्ठीतृतीयादन्याद् दोऽर्थे ।३।२।११९॥ अषष्ठयन्तादतृतीयान्ताच्चाऽन्यादर्थे उत्तरपदे दन्तो वा स्यात् । अन्यदर्थः , अन्यार्थः । षष्ठ्यादिवर्जनं किम् ? अन्यस्याऽन्येन वाऽर्थः अन्यार्थः ।।११९।।
आशीराशा-ऽऽस्थिता-ऽऽस्थोसुकोति-रागे ।३।२।१२०॥ एषूत्तरपदेषु अषष्ठीतृतीयादन्याद् दन्तः स्यात् । अन्यदाशी: , अन्यदाशा , अन्यदास्थित: , अन्यदास्था , अन्यदुत्सुकः , अन्यदूतिः , अन्यद्रागः । अषष्ठीतृतीयादित्येव-अन्यस्य अन्येन वा आशी: अन्याशी: ।।१२०।।
ईय-कारके ।३।२।१२१॥ अन्याद् ईये प्रत्यये कारके चोत्तरपदे दन्तः स्यात् । अन्यदीयः , अन्यत्कारक: ।।१२शा
__ सर्वादि-विश्वग्-देवाड्डद्रिः क्वयञ्चौ ।३।२।१२२॥ सर्वादेर्विष्वग्-देवाभ्यां च पर: क्विबन्ते अञ्चावुत्तरपदे डद्रिरन्त: स्यात् । सर्वद्रीच: द्वद्रयङ् ; विष्वव्यङ् , देवव्यङ् । कीति किम् ? विष्वगञ्चनम् ।।१२२।।
सह-समः सध्रि-समि ।३।२।१२३॥ अनयोः स्थाने क्विबन्ते अञ्चावुत्तरपदे यथासंख्यं सध्रि-समी स्याताम्। सध्यङ् , सम्यङ् । क्वयञ्चावित्येव-सहाञ्चनम् ।।१२३।।
तिरसस्तियति ।३।२।१२४॥ अकारादौ क्व्यञ्चावुत्तरपदे तिरसस्तिरिः स्यात् । तिर्यङ् । अतीति किम् ? तिरश्चः ||१२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org