SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १४० स्वोपज्ञलघुवृत्तिविभूषितं नात् ।३२।१२५॥ उत्तरपदे परे नञ् अ: स्यात् । अचौरः पन्थाः । उत्तरपद इत्येव- न भुते ।।१२५।। त्यादौ क्षेपे ।३।२।१२६॥ त्याद्यन्ते पदे परे निन्दायां गम्यायाम् न अ: स्यात् । अपचसि त्वं जाल्म !। क्षेप इति किम् ? न पचति चैत्रः ।।१२६।। नगोऽप्राणिनि वा ।३।२।१२७॥ अप्राणिन्यर्थे नगो वा निपात्यते । नग: , अगो गिरिः । अप्राणिनीति किम् ? अगोऽयं शीतेन ।।१२७॥ नखादयः ।३।२।१२८॥ एते अंकृतादनादेशा निपात्यन्ते । नखः , नासत्यः ।।१२८|| अन् स्वरे ।३।२।१२९॥ स्वरादावुत्तरपदे नञोऽन् स्यात् । अनन्तो जिनः ॥१२९।। कोः कत् तत्पुरुषे ।३।२।१३०॥ स्वरादावुत्तरपदे कोस्तत्पुरुषे कद् स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः । स्वर इत्येव-कुब्राह्मण: ।।१३०॥ रथ-वदे।३।२।१३१॥ रथे वदे चोत्तरपदे को: कद् स्यात् । कद्रथः , कद्वदः ॥१३१|| - तृणे जातौ ।३।२।१३२॥ जातावर्थे तृणे उत्तरपदे को: कद् स्यात् । कत्तृणा रौहिषाख्या तृणजाति: ।।१३२|| कत्त्रिः ।३।२।१३३॥ को: किमो वा त्रावुत्तरपदे कद् स्यात् । कत्त्रयः ॥१३३।। काऽक्ष-पथोः ।३।२।१३४॥ अनयोरुत्तरपदयो: को: का स्यात् । काऽक्ष: , कापथम् ।।१३४।। १. अकृत: अत् अन् आदेशो येषां ते तथोक्ता: । 'अकृताकाराद्यादेशा' J3 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy