________________
१३८
स्वोपज्ञलघुवृत्तिविभूषितं
ते लुग्वा ।३।२।१०८॥ संज्ञाविषये पूर्वोत्तरपदे लुग् वा स्यात् । देवदत्तः , देव: , दत्त: ।।१०८||
व्यन्तरनवर्णोपसर्गादप ईप् ।३।२।१०९॥ व्यन्तामवर्णान्तव|पसर्गेभ्यश्च परस्याऽप उत्तरपदस्य ईप् स्यात् । द्वीपम् , अन्तरीपम् , नीपम् , समीपम् । उपसर्गादिति किम् ? स्वाप: । अनवर्णेति किम् ? प्रापम् , परापम् ॥१०९।।
अनोर्देशे उप् ।३।२।११०॥ अनो: परस्याऽपो देशेऽर्थे उप् स्यात् । अनूपो देश: । देश इति किम् ? अन्वीपं वनम् ।।११०॥
__ खित्यनव्यया-ऽरुषो मोऽन्तो ह्रस्वश्च ।३।२।१११॥ स्वरान्तस्यानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तो यथासम्भवं ह्रस्वादेशश्च स्यात् । शंमन्य: , कालिंमन्या , अरुन्तुदः । खितीति किम् ? ज्ञमानी । अनव्ययेति किम् ? दोषामन्यमहः ।।१११।।
सत्या-ऽगदा-ऽस्तोः कारे ।३।२।११२॥ एभ्य: कारे उत्तरपदे मोऽन्त: स्यात् । सत्यङ्कारः , अगदङ्कारः , अस्तुङ्कारः ॥११२।।
लोकम्पृण-मध्यन्दिना-ऽनभ्याशमित्यम् ।३।२।११३॥ एते कृतपूर्वपदमन्ता निपात्यन्ते। लोकम्पृण: , मध्यन्दिनम् , अनभ्याशमित्यः
॥११३।।
- भ्राष्ट्रा-ऽग्नेरिन्धे ।३।२।११४॥ आभ्यामिन्धे उत्तरपदे मोऽन्त: स्यात् । भ्राष्ट्रमिन्धः , अग्निमिन्धः ।।११४।।
अगिलाद गिल-गिलगिलयोः ।३।२।११५॥ गिलान्तवर्जात् पूर्वपदात् परे गिले गिलगिले चोत्तरपदे मोऽन्त: स्यात् । तिमिङ्गिल: , तिमिङ्गिलगिल: । अगिलादिति किम् ? तिमिङ्गिलगिलः ॥११५।।
भद्रोष्णात् करणे ।३।२।११६॥
१. भ्यास प्रा० बृहद्वृत्तिं च विना ।। २. मान्ता पा१ ।। ३. भ्यासमित्यः पा१,२ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org