SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १३७ नासिकायास्तस्प्रत्यये क्षुद्रे चोत्तरपदे नस् स्यात् । नस्त: , न:क्षुद्रः ।।९९।। येऽवर्णे।३।२।१००॥ नासिकाया ये प्रत्यये वर्णादन्यत्रार्थे नस् स्यात् । नस्यम् । य इति किम् ? नासिक्यं पुरम् । अवर्ण इति किम् ? नासिक्यो वर्णः ॥१००।। शिरसः शीर्षन् ।३।२।१०१॥ शिरसो ये प्रत्यये शीर्षन् स्यात् । शीर्षण्य: स्वर: , शीर्षण्यं तैलम् । य इत्येव-शिरस्त: , शिरस्यति ॥१०१।। केशे वा ।३।२।१०२॥ शिरस: केशविषये ये प्रत्यये शीर्षन् वा स्यात् । शीर्षण्या: शिरस्या: केशा: ॥१०२॥ शीर्षः स्वरे तद्धिते ।३।२।१०३॥ शिरस: स्वरादौ तद्धिते शीर्षः स्यात् । हास्तिशीर्षिः , शीर्षिक: ।।१०३।। उदकस्योदः पेष-धि-वास-वाहने ।३।२।१०४॥ उदकस्य पेषमादावुत्तरपदे उद: स्यात् । उदपेषं पिनष्टि , उदधिर्घट: , उदवास: , उदवाहनः ।।१०४॥ वैकव्यञ्जने पूर्ये ।३।२।१०५॥ उदकस्याऽसंयुक्तव्यञ्जनादौ पूर्यमाणार्थे उत्तरपदे उदो वा स्यात् ।उदकुम्भ: , उदककुम्भ: । व्यञ्जन इति किम् ? उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्य इति किम् ? उदकदेश: ।।१०५|| मन्यौदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध-गाहे वा ।३।२।१०६॥ एषूत्तरपदेषु उदकस्योदो वा स्यात् । उदमन्थः , उदकमन्थ: ; उदौदन: , उदकौदनः ; उदसक्तुः , उदकसक्तुः ; उदबिन्दुः , उदकबिन्दुः ; उदवज्रः , उदकवज्रः ; उदभारः , उदकभार: ; उदहार: , उदकहार: ; उदवीवधः , उदकवीवधः ; उदगाहः , उदकगाह: ।।१०६॥ नाम्युत्तरपदस्य च ।३।२।१०७॥ उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुदः स्यात् । उदमेघ: , उदवाह: , उदपानम् , उदधिः , लवणोदः , कालोदः ॥१०७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy