SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं देवताद्वन्द्वे दिवः पृथिव्यामुत्तरपदे एतौ वा स्याताम् । दिवस्पृथिव्यौ दिवः पृथिव्यौ, द्यावापृथिव्यौ || ४५ || उषासोषसः । ३।२।४६॥ १३० देवताद्वन्द्वे उषस उत्तरपदे उषासा स्यात् । उषासासूर्यम् ||४६ || मातरपितरं वा | ३ | २|४७॥ मातृपित्रोः पूर्वोत्तरपदयोर्द्वन्द्वे ऋतोऽरो वा निपात्यते । मातरपितरयो:, मातापित्रोः ||४७|| " वर्चस्कादिष्ववस्करादयः | ३|२|४८॥ एष्वर्थेष्वेते कृतशषसाद्युत्तरपदाः साधवः स्युः । अवस्करोऽन्नमलम्, अवकरोअपस्करो रथाङ्गम्, अपकरोऽन्यः ||४८|| ऽन्यः ; परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ् | ३|२|४९ ॥ परतः विशेष्यवशात् स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे पुंवत् स्यात्, न तूङन्तः । दर्शनीयभार्यः । परत इति किम् ? द्रोणीभार्यः । स्त्रीति किम् ? खलपुदृष्टिः । स्त्र्येकार्थ इति किम् ? गृहिणीनेत्रः, कल्याणीमाता । अनूङिति किम् ? । करभोरुभार्यः ||४९|| क्यङ् - मानि- पित्तद्धिते | ३ |२|५० ॥ क्यङि मानिनि चोत्तरपदे पित्तद्धित्ते च परतः स्त्रीलिङ्गोऽनूङ् पुंवत् स्यात् 1 श्येतायते, दर्शनीयमानी अयमस्याः अजथ्यं यूथम् ||५०|| जातिश्व णि तद्धितय - स्वरे |३२|५१ || , अन्या परतः स्त्री जातिश्च णौ प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते पुंवत् स्याद्, अनूङ् । पटयति, एत्य:, भावत्कम् । जाति- दारद्य:, गार्गः । तद्धितेति किम् ? हस्तिनीयति, हस्तिन्यः ॥ ५१ ॥ एयेऽग्नायी | ३ |२|५२॥ एयप्रत्ययेऽग्नाय्येव परत: स्त्री पुंवत् स्यात् । आग्नेयः । पूर्वेण सिद्धे नियमार्थमिदम् | श्यैनेयः ||५२|| नाप - प्रियाssदौ । ३।२।५२॥ अप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परतः स्त्री पुंवन्न स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy