________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
__
१२९
भर्तृगृहम् ।।३७॥
__ स्वसृ-पत्योर्वा ।३।२।३८॥ विद्यायोनिसम्बन्धनिमित्तानाम् ऋदन्तानां षष्ठया: स्वसृपत्योरुत्तरपदयोोनिसम्बन्धनिमित्तयोर्लुब् वा न स्यात् । होतु:स्वसा , होतृस्वसा ; स्वसुःपतिः , स्वसृपतिः । विद्यायोनिसम्बन्ध इत्येव-भर्तृस्वसा , होतृपतिः ॥३८॥
आ द्वन्द्वे ।३।२।३९॥ विद्यायोनिसम्बन्धनिमित्तानाम्ऋदन्तानांयोद्वन्द्वस्तस्मिन्सत्युत्तरपदेपूर्वपदस्याऽऽत् स्यात् । होतापोतारौ , मातापितरौ । ऋतामित्येव-गुरुशिष्यौ । विद्यायोनिसम्बन्ध इत्येव-कर्तृकारयितारौ ॥३९॥
पुत्रे ।३।२।४०॥ पुत्रे उत्तरपदे विद्यायोनिसम्बन्धनिमित्तानाम् ऋदन्तानां द्वन्द्वे आ: स्यात् । मातापुत्रौ , होतापुत्रौ ॥४०॥
वेदसहश्रुताऽवायुदेवतानाम् ।३।२॥४१॥ एषां द्वन्द्वे पूर्वपदस्योत्तरपदे आ: स्यात्। इन्द्रासोमौ। वेदेति किम् ? ब्रह्मप्रजापती । सहेति किम् ? विष्णुशक्रौ । श्रुतेति किम् ? चन्द्रसूर्यो । वायुवर्जनं किम् ? वाय्वग्नी । देवतानामिति किम् ? यूपचषालौ ॥४१॥
ई षोम-वरुणेऽग्नेः ।३।२॥४२॥ वेदसहश्रुताऽवायुदेवतानां द्वन्द्वे षोमे वरुणे चोत्तरपदेऽग्नेरी: स्यात् , षोमेति निर्देशाद् ईयोगे षत्वं च । अग्नीषोमौ , अग्नीवरुणौ । देवताद्वन्द्व इत्येव-अग्निसोमौ बटू ॥४२।।
इर्वृद्धिमत्यविष्णौ ।३।२।४३॥ विष्णुवर्षे वृद्धिमत्युत्तरपदे देवताद्वन्द्वे अग्नेरि: स्यात् । आग्निवारुणीमनड्वाहीमालभेत । वृद्धिमतीति किम् ? अग्नीवरुणौ । अविष्णाविति किम् ? आग्नावैष्णवं चरुं निर्वपेत् ।।४३।।
दिवो द्यावा ।३।२।४४॥ देवताद्वन्द्वे दिव उत्तरपदे द्यावेति स्यात् । द्यावाभूमी ॥४४।।
दिवस-दिवः पृथिव्यां वा ।३।२॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org