SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १२६ स्वोपज्ञलघुवृत्तिविभूषितं मनसश्वाऽऽज्ञायिनि ।३।२।१५॥ मनस आत्मनश्च परस्य ट आज्ञायिन्युत्तरपदे परे लुब् न स्यात्। मनसाऽऽज्ञायी , आत्मनाऽऽज्ञायी ॥१५॥ नाम्नि ।३।२।१६॥ मनस: परस्य ट: संज्ञाविषये उत्तरपदे परे लुब् न स्यात् । मनसादेवी । नाम्नीति किम् ? मनोदत्ता कन्या ।।१६।। परा-ऽऽत्मभ्यां ः ॥३॥२॥१७॥ आभ्यां परस्य डेवचनस्योत्तरपदे परे नाम्नि लुब् न स्यात् । परस्मैपदम् , आत्मनेपदम् । नाम्नीत्येव-परहितम् ।।१७।। अद्-व्यञ्जनात् सप्तम्या बहुलम् ।३।२।१८॥ अदन्ताद् व्यञ्जनान्ताच्च परस्या: सप्तम्या बहुलं नाम्नि लुब् न स्यात् । अरण्येतिलका: , युधिष्ठिरः। अद्वयञ्जनादिति किम् ? भूमिपाश: । नाम्नीत्येवतीर्थकाकः ॥१८॥ प्राकारस्य व्यञ्जने ।३।२।१९॥ राजलभ्यो रक्षानिर्वेश: कारः । प्राचां देशे य: कारः तस्य संज्ञायां गम्यायामद्व्यञ्जनात् परस्या: सप्तम्या व्यञ्जनादावुत्तरपदे परे लुब् न स्यात् । मुकुटेकार्षापण: , समिधिमाषक: । प्रागिति किम् ? यूथपशु: , उदीचामयं न प्राचाम् । कार इति किम् ? अभ्यर्हितपशुः । व्यञ्जन इति किम् ? अविकटोरण: ||१९|| ___ तत्पुरुषे कृति ।३।२॥२०॥ अद्-व्यञ्जनात् परस्या: सप्तम्या: कृदन्ते उत्तरपदे तत्पुरुषे लुब् न स्यात् । स्तम्बेरमः , भस्मनिहुतम्। तत्पुरुष इति किम् ? धन्वकारकः । अद्वयञ्जनादित्येवकुरुचरः ॥२०॥ मध्या-ऽन्ताद् गुरौ ।३।२।२१॥ आभ्यां परस्या: सप्तम्या गुरावुत्तरपदे परे लुब् न स्यात् । मध्येगुरुः , अन्तेगुरुः ।।२१।। १. परे पा१ J3 नास्ति ।। २. परे पा१ खं२ नास्ति ।। ३. परे पा१ विना नास्ति ।। ४. परे नास्ति खं२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy