SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् । ऐकार्थ्ये | ३|२|८|| ऐकार्थ्यम् ऐकपद्यम्, तन्निमित्तस्य स्यादेर्लुप् स्यात् । चित्रगुः पुत्रीयति औपगवः । अत एव लुब्विधानाद् नाम नाम्ना० [ ३|१|१८ ] इत्युक्तावपि स्याद्यन्तानां समासः स्यात् । ऐकार्थ्य इति किम् ? चित्रा गावो यस्येत्यादिवाक्ये मा भूत् ||८|| न नाम्येकस्वरात् खित्युत्तरपदेऽमः ॥३॥२२९॥ समासारम्भकमन्त्यं पदम् उत्तरपदम् तस्मिन् खित्प्रत्ययान्ते परे नाम्यन्तादेकस्वरात् पूर्वपदात् परस्याऽमो लुब् न स्यात् । स्त्रियंमन्यः, नावंमन्यः | नामीति किम् ? क्ष्मंमन्यः । एकस्वरादिति किम् ? वर्धुमन्या । खितीति किम् ? स्त्रीमा ||९| असत्त्वे ङसेः । ३।२।१०॥ असत्त्वे विहितस्य ङसेरुत्तरपदे परे लुब् न स्यात् । स्तोकान्मुक्तः । असत्त्व इति किम् ? स्तोकभयम् । उत्तरपद इत्येव - निःस्तोकः ||१०|| ब्राह्मणाच्छंसी | ३|२|११॥ " अत्र समासे ङसेर्लुबभावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनाद् ऋत्विग्विशेषादन्यत्र लुबेव - ब्राह्मणशंसिनी स्त्री ||११|| ओजोऽञ्जः सहो -sम्भस् - तमस् - तपसष्टः । ३।२।१२॥ १२५ एभ्यः परस्य टावचनस्योत्तरपदे परे लुब् न स्यात् । ओजसाकृतम्, अञ्जसाकृतम् सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाप्राप्तम् । ट इति किम् ? ओजोभावः ||१२|| 7 , पुंजनुषोऽनुजा -s | ३|२|१३|| पुम्जनुर्भ्यां परस्य टो यथासंख्यमनुजेऽन्धे चोत्तरपदे लुब् न स्यात् । पुंसाऽनुजः जनुषाऽन्धः । ट इत्येव - पुमनुजा ||१३|| आत्मनः पूरणे | ३| २|१४|| अस्मात् परस्य टः पूरणप्रत्ययान्ते उत्तरपदे लुब् न स्यात् । आत्मनाद्वितीयः आत्मनाषष्ठः || १४ || १. तपसाप्तम् पा२ । तपसाकृतम् खं१ ।। २. ओजसो भाव ओजोभावः पा१ ॥ 7 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy