SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं [द्वितीयः पादः ] परस्परा-ऽन्योन्येतरेतरस्याम् स्यादेर्वाऽपुंसि | ३ |२| १ || एषामपुंवृत्तीनां स्यादेराम् वा स्यात् । इमे सख्यौ कुले वा परस्परां परस्परम् अन्योन्यामन्योन्यम्, इतरेतरामितरेतरं भोजयत: । आभिः सखीभिः कुलैर्वा परस्परां परस्परेण, अन्योन्यामन्योन्येन, इतरेतरामितरेतरेण भोज्यते । अपुंसीति किम् ? नराः परस्परं भोजयन्ति ॥ १ ॥ . अमव्ययीभावस्याऽतोऽपञ्चम्याः | ३| २|२॥ १२४ , अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात्, न तु पञ्चम्याः । उपकुम्भमस्ति , उपकुम्भं हि । अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् । अत इति किम् ? अधिस्त्रि | अपञ्चम्या इति किम् ? उपकुम्भात् ||२|| T वा तृतीयायाः | ३ | २|३॥ अदन्तस्याव्ययीभावस्य तृतीयाया अम् वा स्यात् । किं नः उपकुम्भम् , किं नः उपकुम्भेन । अव्ययीभावस्येत्येव — प्रियोपकुम्भेन || ३ || सप्तम्या वा | ३|२|४|| अदन्तस्याव्ययीभावस्य सप्तम्या अम् वा स्यात् । उपकुम्भम्, उपकुम्भे धेहि । अव्ययीभावस्येत्येव - प्रियोपकुम्भे ||४|| ऋद्ध - नदी - वंश्यस्य | ३ |२|५|| एतदन्तस्याऽव्ययीभावस्याsदन्तस्य सप्तम्या अम् नित्यं स्यात् । सुमगधम् उन्मत्तगङ्गम्, एकविंशतिभारद्वाजं वसति ||५|| अनतो लुप् ।३।२।६।। अदन्तवर्जस्याऽव्ययीभावस्य स्यादेर्लुप् स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्भात् । अव्ययीभावस्येत्येव-प्रियोपवधुः ||६|| अव्ययस्य | ३|२|७| " अव्ययानां स्यादेर्लुप् स्यात् । स्वः प्रात: । अव्ययस्येति किम् ? अत्युच्चैस: , 11611 १. इमे नराः J3 ।। २. देहि खं२ विना || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy