________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१२३
नक्षत्रतुवाचि तुल्यस्वरं द्वन्द्वेऽनुपूर्वं प्राक् स्यात् । अश्विनी-भरणी-कृत्तिकाः , हेमन्त-शिशिर-वसन्ताः । तुल्यस्वरमिति किम् ? आर्द्रा-मृगशिरसी , ग्रीष्म-वसन्तौ ।।१६२॥
संख्या समासे ।३।१।१६३॥ समासमात्रे संख्यावाच्यनुपूर्वं प्राक् स्यात् । द्वित्राः , द्विशती , एकादश ।।१६३||
[इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] तृतीयस्याध्यायस्य प्रथमः पादः समाप्त: ।।३।१।।
असंरब्धा अपि चिरं दुःसहा वैरिभूभृताम् । चण्डाश्चामुण्डराजस्य प्रतापशिखिन: कणाः ।।९।।
१. समाप्तः खं२ विना नास्ति ।। २. भूभुजाम् प्रा० पार ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org