SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १२२ स्वोपज्ञलघुवृत्तिविभूषितं प्रहरणार्थात् क्तान्तं बहुव्रीहौ वा प्राक् स्यात् । उद्यतासिः , अस्युद्यतः ॥१५४|| न सप्तमीन्द्वादिभ्यश्च ।३।१।१५५॥ इन्द्वादे: प्रहरणार्थाच्च प्राक् सप्तम्यन्तं बहुव्रीहौ न स्यात् । इन्दुमौलिः , पद्मनाभ: , असिपाणिः ॥१५५|| गड्वादिभ्यः ।३।१।१५६॥ गड्वादिभ्यो बहुव्रीहौ सप्तम्यन्तं प्राग् वा स्यात् । कण्ठेगडुः , गडुकण्ठः ; मध्येगुरुः , गुरुमध्यः ॥१५६।। प्रियः ।३।२१५७॥ अयं बहुव्रीहौ प्राग् वा स्यात् । प्रियगुडः , गुडप्रियः ।।१५७।। कडारादयः कर्मधारये ।३।१।१५८॥ एते कर्मधारये प्राग् वा स्युः । कडारजैमिनि: , जैमिनिकडार: ; काणद्रोण: , द्रोणकाण: ।।१५८|| धर्मार्थादिषु द्वन्द्वे ।३।१।१५९॥ एषु द्वन्द्वेष्वप्राप्तप्राक्त्वं वा प्राक् स्यात् । धर्मार्थौ , अर्थधम्मौ ; शब्दार्थों , अर्थशब्दौ ॥१५९॥ लघ्वक्षरा-ऽसखीदुत्-स्वराद्यदल्पस्वरा-ऽय॑मेकम् ।३।१।१६०॥ लघ्वक्षरं सखिवर्जेदुदन्तं स्वराद्यकारान्तमल्पस्वरं पूज्यवाचि चै द्वन्द्वे प्राक स्यात् । शरंशीर्षम् , अग्नीषोमौ , वायुतोयम् । असखीति किम् ? सुतसखायौ । अस्त्र-शस्त्रम् , प्लक्ष-न्यग्रोधौ , श्रद्धा-मेधे । लघ्वादीति किम् ? कुक्कुट-मयूरो , मयूर-कुकुटौ । एकमिति किम् ? शङ्ख-दुन्दुभि-वीणा: । द्वन्द्व इत्येव-विस्पष्टपटुः ||१६०॥ ___ मास-वर्ण-भ्रात्रऽनुपूर्वम् ।३।१।१६१॥ एतद्वाचि द्वन्द्वेऽनुपूर्वं प्राक् स्यात् । फाल्गुन-चैत्रौ , ब्राह्मण-क्षत्रियो . ब्राह्मण-क्षत्रिय-विश: , बलदेव-वासुदेवौ ॥१६१।। भर्तुतुल्यस्वरम् ।३।१।१६२॥ १. लघुवृत्तेर्हस्तलिखितादर्शेषु शीर्ष इति पा१,२, खं१,२, 13 मध्ये पाठः । सीप॑ पा३ । बृहद्वृत्ती K1 मध्ये सीर्यं इति, K2 मध्ये तु शीर्य इति पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy