________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१२१
दधिपयआद्यो द्वन्द्व एकार्थो न स्यात् । दधिपयसी , सर्पिर्मधुनी ॥१४५॥
संख्याने ।३।१।१४६॥ वर्तिपदार्थानां गणने गम्ये द्वन्द्व एकार्थो न स्यात् । दश गोमहिषा: , बहवः पाणिपादाः ॥१४६।।
वाऽन्तिके ।३।१।१४७॥ वर्तिपदार्थानां संख्यानस्य समीपे गम्ये द्वन्द्व एकार्थो वा स्यात् । उपदशं गोमहिषम् , उपदशा गोमहिषा: ॥१४७।।
प्रथमोक्तं प्राक् ।३।१।१४८॥ अत्र समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं तत् प्राक् स्यात् । आसन्नदशा: , सप्तगङ्गम् ।।१४८||
राजदन्तादिषु ।३।१।१४९॥ एतेषु समासेष्वप्राप्तप्राग्निपातं प्राक् स्यात्। राजदन्तः , लिप्तवासितम्॥१४९।।
विशेषण-सर्वादि-संख्यं बहुव्रीहौ ।३।१।१५०॥ विशेषणं सर्वादि संख्यावाचि च बहुव्रीहौ प्राक् स्यात् । चित्रगुः , सर्वशुक्ल: , द्विकृष्ण: ।।१५०।।
क्ताः ।३।११५१॥ क्तान्तं सर्वं बहुव्रीहौ प्राक् स्यात् । कृतकट: ।।१५१||
जाति-काल-सुखादेर्नवा ।३।१।१५२॥ जाते: कालात् सुखादिभ्यश्च बहुव्रीहौ क्तान्तं वा प्राक् स्यात् । शाङ्गरजग्धी , जग्धशाङ्गरा ; मांसजाता , जातमासा ; सुखजाता , जातसुखा ; दु:खहीना , हीनदुःखा ।।१५२।।
आहिताग्न्यादिषु ।३।१।१५३॥ एषु बहुव्रीहिषु क्तान्तं वा प्राक् स्यात् । आहिताग्निः , अग्र्याहित: ; जातदन्तः , दन्तजातः ।।१५३।।
प्रहरणात् ।३।११५४॥ १. मासयाता, यातमासा, सुखयाता, यातसुखा पार, खंसं२, J3 विना । दृश्यताम् २।४।४७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org