________________
१२०
बदरामलकम् ||१३६ ॥
प्राणि तूर्याङ्गाणाम् | ३|१|१३७॥
1
प्राणि- तूर्ययोरङ्गार्थानां स्वैर्द्वन्द्व एकार्थः स्यात् । कर्णनासिकम्, मार्दङ्गिकपाणविकम् । स्वैरित्येव - पाणि- गृध्रौ ॥१३७॥
चरणस्य स्थेणोऽद्यतन्यामनुवादे | ३|१|१३८||
स्वोपज्ञलघुवृत्तिविभूषितं
चरणाः कठादयः, तद्वाचिनामद्यतन्यां यौ स्थेणौ तयोः कर्तृत्वेन सम्बन्धिनां स्वैर्द्वन्द्वोऽनुवादविषये एकार्थ: स्यात् । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुमम् | अनुवाद इति किम् ? उदगुः कठकालापाः अप्रसिद्धं कथयति ॥१३८|| अक्लीवेऽध्वर्युक्रतोः | ३|१|१३९ ॥
,
अध्वर्युः यजुर्वेदः, तद्विहितक्रतुवाचिनां स्वैर्द्वन्द्व एकार्थ: स्यात्, न चेदेते क्लीबवृत्तयः | अर्काश्वमेधम् । अक्लीब इति किम् ? गवामयनादित्यानामयने । अध्वविति किम् ? इषु- वज्रौ । क्रतोरिति किम् ? दर्श- पौर्णमासौ ॥ १३९ ॥ निकटपाठस्य | ३|१|१४०॥
निकटः पाठो येषामध्येतॄणां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । पदकक्रमकम्
।। १४० ।।
नित्यवैरस्य । ३।१।१४१॥
नित्यं जातिनिबद्धं वैरं येषां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । अहिनकुलम् । नित्यवैरस्येति किम् ? देवासुराः, देवासुरम् || १४१ ।।
नदी- देश - पुरां विलिङ्गानाम् ||३|१|१४२||
एषां विविधलिङ्गानां स्वैर्द्वन्द्व एकार्थ: स्यात् । गङ्गा - शोणम्, कुरु कुरुक्षेत्रं
मथुरा - पाटलिपुत्रम् । विलिङ्गानामिति किम् ? गङ्गा-यमुने || १४२||
पात्र्यशूद्रस्य | ३|१|१४३॥
पात्रार्हशूद्रवाचिनां स्वैर्द्वन्द्व एकार्थः स्यात् । तक्षायस्कारम् | पात्र्येति किम् ? जनङ्गम-बुक्कसाः ॥ १४३॥
"
गवाश्वादिः | ३|१|१४४॥
अयं द्वन्द्वः एकार्थः स्यात् । गवाश्वम्, गवाविकम् ॥ १४४॥
न दधिपय आदिः | ३|१|१४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org