SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः ।३।१।१३०॥ द्रव्यं गुणाद्याश्रयः , विरोधिवाचिनाम् अतदाश्रयवृत्तीनां द्वन्द्वो वैकार्थः स्यात् । स्वैः सजातीयैरेवाऽऽरब्धश्चेत् । सुखदुःखम् , सुखदुःखे ; लाभालाभम् , लाभालाभौ । विरोधिनामिति किम् ? काम-क्रोधौ । अद्रव्याणामिति किम् ? शीतोष्णे जले । स्वैरिति किम् ? बुद्धि-सुख-दुःखानि ॥१३०॥ अश्ववडव-पूर्वापरा-ऽधरोत्तराः ।३।१११३१॥ एते त्रयो द्वन्द्वा एकार्था वा स्युः , स्वैश्चेत् । अश्ववडवम् , अश्ववडवौ ; पूर्वापरम् , पूर्वापरे ; अधरोत्तरम् , अधरोत्तरे ।।१३१।। पशु-व्यञ्जनानाम् ।३।१।१३२॥ पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एकार्थो वा स्यात् । गोमहिषम् , गोमहिषौ ; दधिघृतम् , दधिघृते ।।१३२।। तरु-तृण-धान्य-मृग-पक्षिणां बहुत्वे ।३।१।१३३॥ एतद्वाचिनां बह्वर्थानां प्रत्येकं स्वैर्द्वन्द्व एकार्थो वा स्यात् । प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः ; कुशकाशम् , कुशकाशा: ; तिलमाषम् , तिलमाषा: ; ऋश्यैणम् , ऋश्यैणा: ; हंसचक्रवाकम् , हंसचक्रवाका: ।।१३३।। सेनाङ्ग-क्षुद्रजन्तूनाम् ।३।१।१३४॥ सेनाङ्गानां क्षुद्रजन्तूनां च बह्वर्थानां स्वैर्द्वन्द्व एकार्थो नित्यं स्यात् । अश्वरथम् , यूकालिक्षम् ।।१३४।। फलस्य जातौ ।३।११३५॥ ___ फलवाचिनां बह्वर्थानां जातौ द्वन्द्व एकार्थ: स्यात् । बदरामलकम् । जाताविति किम् ? एतानि बदरामलकानि सन्ति ।।१३५।। अप्राणि-पश्चादेः ।३।१।१३६॥ प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनस्तेषां जात्यर्थानां स्वैर्द्वन्द्व एकार्थ: स्यात् । आराशस्त्रि । जातावित्येव-सह्यविन्ध्यौ । प्राण्यादिवर्जनं किम् ? ब्राह्मणक्षत्रियविट्शूद्राः , ब्राह्मणक्षत्रियविट्शूद्रम् ; गोमहिषौ , गोमहिषम् ; प्रक्षन्यग्रोधौ , प्लक्षन्यग्रोधम् ; अश्वरथौ , अश्वरथम् ; बदरामलके १. त्रयोऽपि खं१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy