________________
स्वोपज्ञलघुवृत्तिविभूषितं
वाऽन्यः स्यात् । गार्ग्यश्च गार्ग्यायणश्च = गार्ग्यो । वृद्ध इति किम् ? गर्ग - गार्ग्यायणौ । यूनेति किम् ? गार्ग्य गर्गौ । तन्मात्रभेद इति किम् ? गार्ग्य - वात्स्यायनौ || १२४|| स्त्रीपुंवच्च । ३।१।१२५ ।।
११८
-
वृद्धस्त्रीवाची यूना सहोत्तौ एकः शिष्यते, पुंलिङ्गश्चायं तन्मात्रभेदे । गार्गी च गार्ग्यायणश्च=गार्ग्यो | गांर्गी च गार्ग्यायणौ च [ = गर्गाः ] गर्गान् ॥ १२५ ।। पुरुषः स्त्रिया | ३|१|१२६॥
"
पुरुषशब्द: प्राणिनि पुंसि रूढः स्त्रीवाचिना सहोतौ पुरुष एकः शिष्यते स्त्रीपुरुषमात्रभेदश्चेत् । ब्राह्मणश्च ब्राह्मणी च = ब्राह्मणौ । पुरुष इति किम् ? तीरं नदनदीपतेः । तन्मात्रभेद इत्येव - पुंस्त्रियौ ॥ १२६ ॥
ग्राम्याशिशुद्विशफसंघे स्त्री प्रायः | ३|१|१२७ ॥
ग्राम्या अशिशवो ये द्विशफा द्विखुरा अर्थात् पशवस्तेषां संघे स्त्रीपुरुषसहोक्तौ प्रायः स्त्रीवाच्येकः शिष्यते, स्त्रीपुरुषमात्रभेदश्चेत् । गावश्च स्त्रियः गावश्च नराः = इमा गाव: । ग्राम्येति किम् ? रुरवश्चेमे रुरवश्चेमा : = इमे रुरवः | अशिश्विति किम् १ बर्कर्यश्च बर्कराश्च = बर्कराः । द्विशफेति किम् ? गर्दभाश्व गर्दभ्यश्च =गर्दभाः । संघ इति किम् ? गौश्वायं गौश्चेयम् = इमौ गावौ । प्रायः इति किम् ? उष्ट्राश्च उष्ट्रयश्च = उष्ट्राः || १२७||
क्लीबमन्येनैकं च वा । ३।१।१२८॥
क्लीबं नपुंसकम्, अन्येन अक्लीबेन सहोक्तावेकं शिष्यते क्लीबा - ऽक्लीवमात्रभेदे एकमेकार्थं च वा स्यात् । शुक्लं च शुक्लश्च = शुक्लं शुक्ले वा । शुक्लं च शुक्लश्च शुक्ला च=शुक्लं शुक्लानि वा । अन्येनेति किम् ? शुक्लं च शुक्लं च=शुक्ले । तन्मात्रभेद इत्येव - हिमहिमान्यौ ॥ १२८||
पुष्यार्थाद् भे पुनर्वसुः | ३|१|१२९||
पुष्यार्थानक्षत्रवृत्तेः परो नक्षत्रवृत्ति: पुनर्वसुः सहोती द्वयर्थः सन् एकार्थः स्यात् । उदितौ पुष्य-पुनर्वसू तिष्य- पुनर्वसू । पुष्यार्थादिति किम् ? आर्द्रापुनर्वसवः । पुनर्वसुरिति किम् ? पुष्य मघाः । भ इति किम् ? तिष्यपुनर्वसवो
,
बालाः ||१२९॥
१. गाय च गार्ग्यायणौ च गर्गान् खंर, अयं पाठः समीचीन एव ।। २. स्त्रीपुंसौ सं१, २ पार J3 ।। ३. भेदे तच्च शिष्यमाणमेकमेकार्थं खं१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org