________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
, वाक्त्वचम्। नाम नाम्नेत्यनुवृत्तावपि लघ्वक्षरा०[३।१।१६०] दिसूत्रे एकग्रहणाद् बहूनामपि—धव-खदिर-पलाशा: । चार्थ इति किम् ? वीप्सासहोक्तौ मा भूत्ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् ।।११७||
समानामर्थेनैकः शेषः ।३।१।११८॥ अर्थेन समानांसमानार्थानां सहोक्तौ गम्यायामेक: शिष्यते , अर्थादन्ये निवर्त्तन्ते । वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा । सितश्च शुक्लश्च श्वेतश्च सिता: शुक्ला: श्वेता वा । अर्थेन समानामिति किम् ? प्लक्ष-न्यग्रोधौ । सहोक्तावित्येव-वक्रश्च कुटिलश्च दृश्यः ॥११८॥
स्यादावसंख्येयः ।३।११११९॥ सर्वस्मिन् स्यादौ विभक्तौ समानां तुल्यरूपाणां सहोक्तावेकः शिष्यते , न तु संख्येयवाची । अक्षश्च शंकटस्य , अक्षश्च देवनः , अक्षश्च बिभीतक: अक्षा: । स्यादाविति किम् ? माता च जननी , माता च धान्यस्य मातृ-मातारौ । असंख्येय इति किम् ? एकश्चैकश्च ।।११९।।
त्यदादिः ।३।१।१२०॥ त्यदाद्यैरन्येन च सहोक्तौ त्यदादिरेवैक: शिष्यते । स च चैत्रश्च तौ , स च यश्च यौ , अहं च स च त्वं च वयम् ।।१२०॥
भ्रातृ-पुत्राः स्वसृ-दुहितृभिः ।३।१।१२१॥ स्वस्रर्थेन सहोक्तौ भ्रात्रर्थः , दुहित्रर्थेन च पुत्रार्थ एक: शिष्यते । भ्राता च स्वसा च=भ्रातरौ , पुत्रश्च दुहिता च=पुत्रौ ।।१२१।।
पिता मात्रा वा ।३।१।१२२॥ मातृशब्देन सहोक्तौ पितृशब्द एक: शिष्यते वा। पिता च माता च पितरौ , मातापितरौ ॥१२२।।
श्वशुरः श्वश्रूभ्यां वा ।३।१।१२३॥ श्वश्रूशब्देन सहोक्तौ श्वशुर एको वा शिष्यते । श्वशुरौ , श्वश्रू-श्वशुरौ ।।१२३।।
वृद्धो यूना तन्मात्रभेदे ।३।१।१२४॥ यूना सहोक्तौ वृद्धवाच्येक: शिष्यते , तन्मात्रभेदे , न चेत् प्रकृतिभेदोऽर्थभेदो १. शकटः पा१ । शकट पामू३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org