SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ११० " " तृतीयान्तं तदर्थकृतैर्गुणवचनैरैकार्थ्ये समासस्तत्पुरुषः स्यात् । शङ्कुलाखण्डः मदपटुः । तत्कृतैरिति किम् ? अक्ष्णा काण: । गुणवचनैरित्येव - दध्ना पटुः पाटवमित्यर्थः ||६५|| स्वोपज्ञलघुवृत्तिविभूषितं चतस्रार्द्धम् ।३|१|६६॥ अर्द्धस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन समासस्तत्पुरुषः स्यात् । अर्द्धचतस्रो मात्रा: । चतस्रेति किम् ? अर्द्धेन चत्वारो द्रोणा : ||६६ || ऊनार्थपूर्वाद्यैः ।३।१।६७॥ तृतीयान्तम् ऊनार्थै: पूर्वाद्यैश्च समासस्तत्पुरुषः स्यात् । माषोनम्, माषविकलम् ; मासपूर्वः, मासावरः ||६७|| कारकं कृता | ३ | १|६८॥ कारकवाचि तृतीयान्तं कृदन्तेन समासस्तत्पुरुषः स्यात् । आत्मकृतम्, नखनिर्भिन्नः काकपेया नदी बाष्पच्छेद्यानि तृणानि । कारकमिति किम् ? विद्ययोषितः ||६८|| , 7 नविंशत्यादिनैकोऽच्चान्तः | ३|१|६९ ॥ एकशब्दस्तृतीयान्तो नविंशत्यादिना सह समासस्तत्पुरुषः स्यात्, एकस्य चाऽदन्तः । एकान्नविंशतिः, एकाद्नविंशतिः, एकान्नत्रिंशत्, एकाद्नत्रिंशत् ||६९॥ चतुर्थी प्रकृत्या | ३ | १|७०॥ प्रकृतिः परिणामि कारणम्, एतद्वाचिनैकार्थ्ये चतुर्थ्यन्तं विकारार्थं समासस्तत्पुरुषः स्यात् । यूपदारु । प्रकृत्येति किम् ? रन्धनाय स्थाली || ७ || हितादिभिः | ३|१|७१ ॥ चतुर्थ्यन्तं हिताद्यैः समासस्तत्पुरुषः स्यात् । गोहितम्, गोसुखम् ||७१ || तदर्थार्थेन । ३।१।७२॥ Jain Education International चतुर्थ्यर्थोऽर्थो यस्य तेनार्थेन चतुर्थ्यन्तं समासस्तत्पुरुष; स्यात् । पित्रर्थं पयः आतुरार्था यवागूः । तदर्थेति किम् ? पित्रेऽर्थः ||२|| पञ्चमी भयाद्यैः | ३|१|७३॥ पञ्चम्यन्तं भयाद्यैरैकार्थ्ये समासस्तत्पुरुषः स्यात् । वृकभयम्, वृकभीरुः ॥७३॥ . चतुर्थ्या अर्थो यस्य पासं३ | चतुर्थ्यर्थो यस्य J3 || १. For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy