SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १११ क्तेनाऽसत्त्वे ।३।११७४॥ असत्त्ववृत्तेर्या पञ्चमी तदन्तं क्तान्तेन समासस्तत्पुरुष: स्यात् । स्तोकान्मुक्तः , अल्पान्मुक्त: । असत्त्व इति किम् ? स्तोकाद् बद्धः ॥७४|| परःशतादिः ।३।११७५॥ अयं पञ्चमीतत्पुरुष: साधु: स्यात् । पर:शता: , पर:सहस्राः ॥७५।। षष्ठययत्नाच्छेषे ।३।११७६॥ शेषे [२।२।८१] या षष्ठी तदन्तं नाम नाग्नेकार्थे समासस्तत्पुरुषः स्यात् , न चेत् स शेष: नाथ [२।२।१०] इत्यादेर्यत्नात् । राजपुरुषः । अयत्नादिति किम् ? सर्पिषो नाथितम् । शेष इति किम् ? गवां कृष्णा सम्पन्नक्षीरा ॥७६।। कृति ।३।११७७॥ कर्मणि कृतः [२। २। ८३] कर्तरि [२। २। ८६] इति च या कृनिमित्ता षष्ठी तदन्तं नाम्ना समासस्तत्पुरुषः स्यात् । सर्पिर्ज्ञानम् , गणधरोक्तिः ॥७७|| याजकादिभिः ।३।११७८॥ षष्ठयन्तं याजकाद्यैः समासस्तत्पुरुष: स्यात् । ब्राह्मणयाजकः , गुरुपूजक: ॥७८॥ पत्ति-रथौ गणकेन ।३।११७९॥ एतौ षष्ठयन्तौ गणकेन समासस्तत्पुरुषः स्याताम् । पत्तिगणक: , रथगणक: । पत्ति-रथाविति किम् ? धनस्य गणकः ॥७९।। सर्वपश्चादादयः ।३।१।८०॥ एते षष्ठीतत्पुरुषाः साधवः स्युः । सर्वपश्चात् , सर्वचिरम् ।।८०|| अकेन क्रीडा-ऽऽजीवे ।३।११८१॥ षष्ठयन्तमकप्रत्ययान्तेन क्रीडा-ऽऽजीविकयोर्गम्ययोः समासस्तत्पुरुषः स्यात् । उद्दालपुष्पभञ्जिका , नखलेखक: । क्रीडा-ऽऽजीव इति किम् ? पयस: पायक: ||८१॥ न कर्त्तरि ।३।१।८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy