SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । कालवाच्येकवचनान्तं द्विगौ च विषये मेयवाचिना समासस्तत्पुरुष: स्यात् । मासजात: ; द्विगौ-एकमासजात: , व्यह्नसुप्तः । काल इति किम् ? द्रोणो धान्यस्य ।।५७|| स्वयं-सामी क्तेन ।३।११५८॥ एते अव्यये क्तान्तेन समासस्तत्पुरुष: स्याताम् । स्वयंधौतम् , सामिकृतम् । क्तेनेति किम् ? स्वयं कृत्वा ।।५८।। द्वितीया खट्वा क्षेपे ।३।१५९॥ खट्वेति द्वितीयान्तं क्षेपे निन्दायां क्तान्तेन सहैकायें समासस्तत्पुरुष: स्यात् । खट्वारूढः । क्षेप इति किम् ? खट्वामारूढः पिताऽध्यापयति ।।५९|| कालः ।३।१६०॥ कालवाचि द्वितीयान्तं क्तान्तेन समासस्तत्पुरुष: स्यात् । रात्र्यारूढा: , अहरतिसृताः ॥६०॥ व्याप्तौ ।३।१६।। गुण-क्रिया-द्रव्यैरत्यन्तसंयोगे या द्वितीया तदन्तं कालवाचि व्यापकार्थेन समासस्तत्पुरुष: स्यात् । मुहुर्तसुखम् , क्षणपाठः , दिनगुडः । व्याप्ताविति किम् ? मासं पूरको याति ॥६१।। श्रितादिभिः ।३।२६२॥ द्वितीयान्तं श्रितादिभि: समासस्तत्पुरुषः स्यात्। धर्मश्रित: , शिवगतः ।।६२।। प्राप्ता-ऽऽपन्नौ तयाऽच्च ।३।१६३॥ एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम् , तद्योगे चानयोरंत् स्यात् । प्राप्तजीविका , आपन्नजीविका ॥६३।। ईषद् गुणवचनैः ।३।१६४॥ ईषदव्ययं गुणवचनैः समासस्तत्पुरुषः स्यात् । ये गुणे वर्त्तित्वा तद्योगाद् गुणिनि वर्त्तन्ते ते गुणवचना: । ईषपिङ्गल: , ईषद्रक्तः । गुणवचनैरिति किम् ? ईषद् गार्ग्य: ॥६४।। तृतीया तत्कृतैः ।३।११६५॥ १. रच्च स्यात् खं१,२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy