________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१०५
, पञ्चनदम् । समाहार इति किम् ? एकनदी ॥२८॥
वंश्येन पूर्वार्थे ।३।१।२९।। विद्यया जन्मना वा एकसन्तानो वंश: , तत्र भवो वंश्यः , तद्वाचिना नाम्ना संख्यावाचि समासोऽव्ययीभाव: स्यात् , पूर्वपदस्यार्थे वाच्ये । एकमुनि व्याकरणस्य , सप्तकाशि राज्यस्य । पूर्वार्थ इति किम् ? द्विमुनिकं व्याकरणम् ।।२९।।
पारे-मध्ये-ऽग्रे-ऽन्तः षष्ठया वा ॥१॥३०॥ एतानि षष्ठयन्तेन पूर्वपदार्थे समासोऽव्ययीभावो वा स्युः । पारेगङ्गम् , मध्येगङ्गम् , अग्रेवणम् , अन्तर्गिरम् ; पक्षे गङ्गापारम् , गङ्गामध्यम् , वनाग्रम् , गिर्यन्तः ॥३०॥
यावदियत्त्वे ।३।१॥३१॥ इयत्त्वेऽवधारणे गम्ये यावदिति नाम नाना पूर्वपदार्थे वाच्ये समासोऽव्ययीभाव: स्यात् । यावदमत्रं भोजय । इयत्त्व इति किम् ? यावद् दत्तं तावद् भुक्तम् ।।३१।।
पर्यपा-ऽऽङ्-बहिरच् पञ्चम्या ।३।१॥३२॥ एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये समासोऽव्ययीभाव: स्युः । परित्रिगतम् , अपत्रिगतम् , आग्रामम् , बहिामम , प्राग्रामम् । पञ्चम्येति किम् ? परि वृक्षं विद्युत् ॥३२॥
लक्षणेनाऽभि-प्रत्याभिमुख्ये ।३।१॥३३॥ लक्षणं चिह्नम् , तद्वाचिनाऽऽभिमुख्यार्थावभि-प्रती पूर्वपदार्थेऽर्थे समासोऽव्ययीभाव: स्याताम् । अभ्यग्नि प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् ? स्रुघ्नं प्रति गतः । पूर्वपदार्थ इत्येव-अभ्यङ्का गावः ॥३३।।
दैर्येऽनुः ।३।१॥३४॥ दैर्ये आयामविषये यल्लक्षणं तद्वाचिना पूर्वपदार्थेऽर्थेऽनुः समासोऽव्ययीभाव: स्यात् । अनुगङ्गं वाराणसी । दैर्घ्य इति किम् ? वृक्षमनु विद्युत् ॥३४||
समीपे ।३।१॥३५॥ समीपार्थेऽनुः समीपिवाचिना पूर्वपदार्थेऽर्थे समासोऽव्ययीभावः स्यात् । अनुवनमशनिर्गता ।।३।। १. स्यात् पा१ खं२ J3 || २. पदार्थे समासो खं१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org