SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं एकमनेकं च एकार्थं समानाधिकरणम् अव्ययं च नाम्ना द्वितीयाद्यन्तान्यपदस्यार्थे समस्यते , स च बहुव्रीहि: । आरूढवानरो वृक्षः , सुसूक्ष्मजटकेश: , उच्चैर्मुख: ॥२२॥ उष्ट्रमुखादयः ।३।११२३॥ एते बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रमुखमिव मुखमस्य उष्ट्रमुख: , वृषस्कन्धः ।।२३। सहस्तेन ।३।१।२४॥ तेनेति तृतीयान्तेन सहोऽन्यपदार्थे समस्यते , स च बहुव्रीहिः । सपुत्र आगत: , सकर्मकः ॥२४॥ दिशो रूढयाऽन्तराले ।३।१।२५॥ रूढया दिग्वाचि नाम रूढयैव दिग्वाचिना सहान्तरालेऽन्यपदार्थे वाच्ये समासो बहुव्रीहिश्च स्यात् । दक्षिणपूर्वा दिक् । रूढयेति किम् ? ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति ।।२५।। तत्राऽऽदाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ।३।१।२६॥ तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियाव्यतिहारे , तेनेति तृतीयान्तं मिथः प्रहृत्येति क्रियाव्यतिहारे , समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोऽ व्ययीभावश्च स्यात् । केशाकेशि , दण्डादण्डि । तत्रेति तेनेति च किम् ? केशांश्च केशांश्च गृहीत्वा , मुखं च मुखं च प्रहृत्य कृतं युद्धम् । आदायेति प्रहत्येति च किम् ? केशेषु च केशेषु च स्थित्वा , दण्डैश्च दण्डैश्चागत्य कृतं युद्धं गृहकोकिलाभ्याम् । सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? हस्ते च हस्ते चाऽऽदाय सख्यं कृतम् ।।२६।। नदीभिर्नानि ।३।१॥२७॥ नाम नदीवाचिना संज्ञायामन्यपदार्थेऽर्थे समासोऽव्ययीभावश्च स्यात् । उन्मत्तगङ्गं देश: , तूष्णींगङ्गम् । नाम्नीति किम् ? शीघ्रगङ्गो देश: ॥२७|| सङ्ख्या समाहारे ।३।१।२८॥ संख्यावाचि नदीवाचिभि: समाहारे गम्ये समासोऽव्ययीभाव: स्यात् । द्वियमुनम् १. पदार्थे समासो खं२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy