________________
स्वोपज्ञलघुवृत्तिविभूषितं
तिष्ठग्वित्यादयः ।३।१॥३६॥ एते संमासा अव्ययीभावाः स्युः , यथायोगमन्यस्य पूर्वस्य वा पदस्यार्थे । तिष्ठद्गु काल: , अधोनाभं हतः ।।३६।।
नित्यं प्रतिनाऽल्पे ।३।१३७॥ अल्पार्थेन प्रतिना नाम नित्यं समासोऽव्ययीभावः स्यात् । शाकप्रति । अल्प इति किम् ? वृक्षं प्रति विद्युत् ॥३७॥
सङ्ख्या-ऽक्ष-शलाकं परिणा द्यूतेऽन्यथावृत्तौ ।३।११३८॥ संख्यावाच्यक्ष-शलाके च द्यूतविषयायामन्यथावृत्तौ वर्त्तमानेन परिणा सह नित्यं समासोऽव्ययीभाव: स्यात् । एकपरि , अक्षपरि , शलाकापरि , एकेनाऽक्षेण शलाकया वा न तथा वृत्तं यथा पूर्वं जय इत्यर्थः । सङ्ख्यादीति किम् ? पाशकेन न तथा वृत्तम् । द्यूत इति किम् ? रथस्याक्षेण न तथा वृत्तम् ।।३८||
विभक्ति-समीप-समृद्धि-व्यृद्धयर्थाभावा-ऽत्यया-ऽसंप्रति-पश्चात्क्रम-ख्याति-युगपत्-सदृक्-सम्पत्-साकल्या-ऽन्तेऽव्ययम् ।३।११३९।। __ एष्वर्थेषु वर्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभाव: स्यात् । विभक्ति- विभक्त्यर्थः कारकम् , अधिस्त्रि । समीप-उपकुम्भम् । समृद्धि-सुमद्रम् । विगता ऋद्धिर्वृद्धि:-दुर्यवनम् । अर्थाभाव-निर्मक्षिकम् । अत्ययोऽतीतत्वम्-अतिवर्षम् । असम्प्रतीति सम्प्रत्युपभोगाद्यभाव:-अतिकम्बलम् । पश्चात्-अनुरथम् । क्रम-अनुज्येष्ठम् । ख्याति-इतिभद्रबाहु । युगपत्- सचक्रं धेहि । सदृक्- सव्रतम् । सम्पत्-सब्रह्म साधूनाम् । साकल्य-सतृणमभ्यवहरति । अन्त-सपिण्डैषणमधीते ॥३९॥
योग्यता-वीप्सा-ऽर्थानतिवृत्ति-सादृश्ये ।३।२४०॥ एष्वर्थेष्वऽव्ययं नाना सह पूर्वपदार्थे समासोऽव्ययीभाव: स्यात् । अनुरूपम् , प्रत्यर्थम् , यथाशक्ति , सशीलमनयोः ॥४०॥ .
यथाऽथा ।३।१४१॥ थाप्रत्ययवर्जं यथेत्यव्ययं पूर्वपदार्थे समासोऽव्ययीभाव: स्यात् । यथारूपं चेष्टते , यथावृद्धम् , यथासूत्रम् । अथेति किम् ? यथा चैत्रस्तथा मैत्रः ॥४१|| १. समासोऽव्य पामू१ । समासाऽव्य पासं१ । समासो अव्य खंमू०२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org