________________
श्रीसिद्धमन्यादानुशासनम् ।
॥अथ तृतीयोऽध्यायः॥
[प्रथमः पादः] धातोः पूजार्थस्वति-गतार्थाधिपर्यतिक्रमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च ।३।१।१॥
धातोः सम्बन्धी तदर्थद्योती प्रादिरुपसर्ग: स्यात् , स च धातोः प्राक , न परे , न व्यवहितः , पूजार्थौ स्वती , गतार्थावधिपरी , अतिक्रमार्थमतिं च वर्जयित्वा । प्रणयति , परिणयति । धातोरिति किम् ? वृक्षं वृक्षमभि सेक: । पूजार्थस्वत्यादिवर्जनं किम् ? सुसिक्तम् , अतिसिक्तं भवता ; अध्यागच्छति , आगच्छत्यधि , पर्यागच्छति , आगच्छति परि ; अतिसिक्त्वा । धातोरिति प्राक् चेति च गतिसंज्ञां यावत् ।।१।।
ऊर्याद्यनुकरण-च्चि-डाचश्च गतिः ।३।१॥२॥ एते उपसर्गाश्च धातो: सम्बन्धिनो गतय: स्युः , ते च प्राग् धातोः । ऊर्यादि- ऊरीकृत्य उररीकृत्य । अनुकरण- खाट्कृत्य ; च्च्यन्त- शुक्लीकृत्य ; डाजन्त- पटपटाकृत्य ; उपसर्ग- प्रकृत्य ॥२।।
कारिका स्थित्यादौ ।३।१॥३॥ स्थित्यादावर्थे कारिका गति: स्यात् । स्थितिः मर्यादा वृत्तिर्वा । कारिकाकृत्य
॥३॥
भूषा-ऽऽदर-क्षेपेऽलं-सद-ऽसत् ।३।११४॥ एष्वर्थेष्वेते यथासंख्यं गतय: स्युः । अलङ्कृत्य , सत्कृत्य , असत्कृत्य । भूषादिष्विति किम् ? अलं कृत्वा , मा कारीत्यर्थः ।।४।।
अग्रहा-ऽनुपदेशेऽन्तरदः ।३।११५॥ अनयोरर्थयोरेतौ यथासंख्यं गती स्याताम् । अन्तर्हत्य , अद:कृत्यैतत्कर्तेति ध्यायति ।।५।।
कणे-मनस् तृप्तौ ।३।११६॥ एतावव्ययौ तृप्तौ गम्यायां गती स्याताम् । कणेहत्य मनोहत्य पय: पिबति १. बृहद्वृत्तेर्हस्तलिखितादर्शेऽपि परे इत्येव पाठः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org