________________
१०२
स्वोपज्ञलघुवृत्तिविभूषितं
। तृप्ताविति किम् ? तण्डुलावयवे कणे हत्वा ।।६।।
पुरोऽस्तमव्ययम् ।३।११७॥ एतावव्ययौ गती स्याताम् । पुरस्कृत्य , अस्तङ्गत्य । अव्ययमिति किम् ? पुरः कृत्वा , नगरीरित्यर्थः ।।७||
गत्यर्थ-वदोऽच्छः ।३।१।८॥ अच्छेत्यव्ययं गत्यर्थानां वदश्च धातो: सम्बन्धि गति: स्यात् । अच्छगत्य , अच्छोद्य ॥८॥
तिरोऽन्तौ ।३।११९॥ तिरोऽन्तझै गति: स्यात् । तिरोभूय ।।९।।
कृगो नवा ।३।१।१०॥ तिरोऽन्तौ कृग: सम्बन्धि गतिर्वा स्यात् । तिरस्कृत्य , तिर:कृत्य , पक्षे तिरः कृत्वा ॥१०॥
मध्ये-पदे-निवचने-मनस्युरस्यनत्याधाने ।३।१।११॥ ___ अनत्याधानम् अनुपश्लेषोऽनाश्चर्यं वा , तद्वृत्तय एतेऽव्ययाः कृग्योगे गतयो वा स्युः । मध्येकृत्य , मध्ये कृत्वा ; पदेकृत्य , पदे कृत्वा ; निवचनेकृत्य , निवचने कृत्वा ; मनसिकृत्य , मनसि कृत्वा ; उरसिकृत्य , उरसि कृत्वा ||११||
उपाजेऽन्वाजे ।३।१।१२॥ । एतावव्ययौ दुर्बलस्य भग्नस्य वा बलाधानार्थौ कृग्योगे गती वा स्याताम् । उपाजेकृत्य , उपाजे कृत्वा ; अन्वाजेकृत्य , अन्वाजे कृत्वा ॥१२॥
स्वाम्येऽधिः ।३।११३॥ स्वाम्ये गम्येऽधीत्यव्ययं कृग्योगे गतिर्वा स्यात् । चैत्रं ग्रामेऽधिकृत्य , अधि कृत्वा वा गतः । स्वाम्य इति किम् ? ग्राममधिकृत्य , उद्दिश्येत्यर्थः ।।१३।।
साक्षादादिश्व्य र्थे ।३।१४॥ एते च्च्यर्थवृत्तय: कृग्योगे गतयो वा स्युः । साक्षात्कृत्य , साक्षात् कृत्वा ; मिथ्याकृत्य , मिथ्या कृत्वा ॥१४।। १. च पार ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org