SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं एषामन्तस्यानित्क्याप्परे इर्वा स्यात् । द्विके , द्वके ; एषिका , एषका ; सूतिका , सूतका ; पुत्रिका , पुत्रका ; वृन्दारिका , वृन्दारका ।।१०९।। वौ वर्तिका ।२।४।११०॥ शकुनावर्थे वर्तिका इति इत्वं वा स्यात् । वर्तिका , वर्त्तका । वाविति किम् ? वर्तिका भागुरिः ॥११०॥ ___ अस्याऽयत्-तत्-क्षिपकादीनाम् ।२।४।१११॥ - यदादिवर्जस्याऽतोऽनित्क्याप्परे इ: स्यात्। पाचिका, मद्रिका। अनित्कीत्येवजीवका । आप्पर इत्येव-बहुपरिव्राजका । यदादिवर्जनं किम् ? यका , सका , क्षिपका , ध्रुवका ॥१११।। नरिका-मामिका ।२।४।११२॥ नरका-मामकयोरित्वं निपात्यते । नरिका , मामिका ॥११२।। तारका-वर्णका-ऽष्टका ज्योतिस्-तान्तव-पितृदेवत्ये ।२।४।११३॥ एतेष्वर्थेषु यथासंख्यम् एते इवर्जा निपात्यन्ते । तारका ज्योति: , वर्णका प्रावरणविशेषः , अष्टका पितृदेवत्यं कर्म ।।११३।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य चतुर्थः पादः समाप्तः ।।२।४|| ॥द्वितीयोऽध्यायः समाप्तः । श्रीमूलराजक्षितिपस्य बाहुर्बिभर्ति पूर्वाचलशृङ्गशोभाम् । संकोचयन् वैरिमुखाम्बुजानि यस्मिन्नयं स्फूर्जति चन्द्रहासः ||८|| १. श्लोकोऽयं केवलं प्रा० बृहद्वृत्तौ च वर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy