________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
अनयोः परयोर्भुवो ह्रस्वोऽच्च स्यात् । भुकुंसः , भ्रकुंस: ; भृकुटिः , भ्रकुटि: ॥१०॥
मालेपीकेष्टकस्याऽन्तेऽपि भारि-तूल-चिते ।।४।१०२॥ एषां केवलानामन्तस्थानां च भार्यादिषु परेषु यथासंख्यं ह्रस्व: स्यात्। मालभारी , उत्पलमालभारी ; इषीकतूलम् , इष्टकचितम् ।।१०२||
गोण्या मेये ।।४।१०३॥ गोण्या मानवृत्तेरुपचारान्मेयवृत्तेह्रस्व: स्यात् । गोण्या मितो गोणिः ॥१०३।।
झ्यादीदूतः के ।२।४।१०४॥ यादीदूतां च के प्रत्यये ह्रस्व: स्यात् । पट्विका , सोमपकः , लक्ष्मिका , वधुका ।।१०४॥
न कचि ।।४।१०५॥ यादीदूत: कचि परे ह्रस्वो न स्यात् । बहुकुमारीक: , बहुकीलालपाक: , बहुलक्ष्मीकः , बहुब्रह्मबन्धूकः ।।१०५।।
नवाऽऽपः ।२।४।१०६॥ आप: कचि परे ह्रस्वो वा स्यात् । प्रियखट्वक: , प्रियखट्वाकः ॥१०६।।
इच्चाऽपुंसोऽनित्क्याप्परे ।२।४।१०७॥ आबेव परो यस्मान्न विभक्तिस्तस्मिन्ननित: प्रत्ययस्यावयवे के परेऽपुंलिङ्गार्थाद्विहितस्याऽऽपस्स्थाने इ-ह्रस्वौ वा स्याताम् । खट्विका , खट्वका , खट्वाका । अपुंस इति किम् ? सर्विका । अनिदिति किम् ? दुर्गका । आप्पर इति किम् ? प्रियखट्वाको ना , अतिप्रियखट्वाका स्त्री। आप इत्येव-मातृका ॥१०७||
स्व-ज्ञा-ऽज-भस्त्राऽधातुत्ययकात् ।२।४।१०८॥ स्व-ज्ञा-ऽज-भस्त्रेभ्यो धातु-त्यवर्जस्य यौ य-को ताभ्यां च परस्याऽऽप: स्थानेऽनित्क्याप्परे परत इकारो वा स्यात् । स्विका , स्वका ; ज्ञिका , ज्ञका ; अजिका , अजका ; अभस्त्रिका , अभस्त्रका ; इभ्यिका , इभ्यका ; चटकिका , चटकका । धातु-त्यवर्जनं किम् ? सुनयिका , सुपाकिका , इहत्यिका । आप इत्येव-काम्पील्यिका ।।१०८||
द्वयेष-सूत-पुत्र-वृन्दारस्य ।।४।१०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org