________________
स्वोपज्ञलघुवृत्तिविभूषितं
अनयोर्योऽके परे लुग् न स्यात् । राजन्यकम् , मानुष्यकम् ।।९४|| ड्यादेगौणस्याक्किपस्तद्धितलुक्यगोणी-सूच्योः ।।४।९५॥
यादेः प्रत्ययस्य गौणस्याक्किबन्तस्य तद्धितलुकि लुक् स्यात् , न तु गोणी-सूच्योः । सप्तकुमारः , पञ्चेन्द्रः , पञ्चयुवा , द्विपङ्गुः । गौणस्येति किम् ? अवन्ती । अक्विप इति किम् ? पञ्चकुमारी । अगोणी-सूच्योरिति किम् ? पञ्चगोणि: , दशसूचिः ।।९५।। ।
गोश्वान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ ।२।४।९६॥ गौणस्याऽक्किपो गोर्डयाद्यन्तस्य चान्ते वर्तमानस्य ह्रस्व: स्यात् , न चेदसावंशिसमासान्त ईयस्वन्तबहुव्रीह्यन्तो वा । चित्रगुः , निष्कौशाम्बिः , अतिखट्वः , अतिब्रह्मबन्धुः । गौणस्येत्येव-सुगौः , राजकुमारी । अकिप इत्येव-प्रियगौः , प्रियकुमारी चैत्रः । गोश्चेति किम् ? अतितन्त्री: । अन्त इति किम् ? गोकुलम् , कन्यापुरम् । अंशिसमासादिवर्जनं किम् ? अर्द्धपिप्पली , बहुश्रेयसी ना ।।९६।।
क्लीबे ।२।४।९७॥ नपुंसकवृत्ते: स्वरान्तस्य ह्रस्व: स्यात् । कीलालपम् , अतिनु कुलम् ।।९७।।
वेदूतोऽनव्यय-वृदीच्-ङीयुवः पदे ।२।४।९८॥ ईदूतोरुत्तरपदे परे ह्रस्वो वा स्यात् , न चेत्तावव्ययौ य्वृतौ ईचौ ड्चौ इयुव्स्थानौ च स्याताम् । लक्ष्मिपुत्रः , लक्ष्मीपुत्र: ; खलपुपुत्र: , खलपूपुत्रः । अव्ययादिवर्जनं किम् ? काण्डीभूतम् , इन्द्रहपुत्रः , कारीषगन्धीपुत्रः , गार्गीपुत्रः , श्रीकुलम् , भ्रूकुलम् ॥९८||
ङ्यापो बहुलं नाम्नि ।२।४।९९॥ चन्तस्याऽऽबन्तस्य चोत्तरपदे परे संज्ञायां ह्रस्व: स्याद् बहुलम् । भरणिगुप्तः ; रेवतिमित्रः , रेवतीमित्र: ; शिलवहम् ; गङ्गमहः , गङ्गामहः ।।९९।।
त्वे ।२।४॥१०॥ चाबन्तस्य त्वे परे बहुलं ह्रस्व: स्यात् । रोहिणित्वम् , रोहिणीत्वम् ; अजत्वम् , अजात्वम् ।।१००॥
भ्रुवोऽच्च कुंस-कुट्योः ।२।४।१०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org