________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
गन्धीमात: , कारीषगन्ध्यामात: ; कारीषगन्धीमाता , कारीषगन्ध्यामाता । कारीषगन्धीमातृक: , कारीषगन्ध्यामातृकः ।।८५||
अस्य यां लुक् ।।४।८६॥ ङ्यां परेऽतो लुक् स्यात् । मद्रचरी ।।८६।।
मत्स्यस्य यः ।२।४।८७॥ मत्स्यस्य यो ङ्यां लुक् स्यात् । मत्सी ।।८७||
___ व्यञ्जनात् तद्धितस्य ।२।४।८८॥ व्यञ्जनात् परस्य तद्धितस्य यो ड्यां लुक् स्यात् । मनुषी । व्यञ्जनादिति किम् ? कारिकेयी । तद्धितस्येति किम् ? वैश्यी ।।८८।।
सूर्या-ऽऽगस्त्ययोरीये च ।।४।८९॥ अनयोर्यो झ्यामीये च प्रत्यये लुक् स्यात् । सूरी , आगस्ती ; सौरीय: , आगस्तीय: ।।८९||
तिष्य-पुष्ययोर्भाणि ।२।४।९०॥ भं नक्षत्रम् , तस्याऽणि परेऽनयोर्यो लुक् स्यात् । तैषी रात्रिः , पौषमहः । भाणीति किम् ? तैष्यश्वरुः ।।९०॥
आपत्यस्य क्य-च्च्योः ।२।४।९।। व्यञ्जनात् परस्याऽऽपत्यस्य य: क्ये च्वौ च परे लुक् स्यात् । गार्गीयति , गार्गायते , गार्गीभूत: । आपत्यस्येति किम् ? साङ्काश्यीयति । व्यञ्जनादित्येवकारिकेयायते ।।९१||
तद्धितयस्वरेऽनाति ।२।४।९२॥ व्यञ्जनात् परस्याऽऽपत्यस्य यो यादावादादिवर्जस्वरादौ च तद्धिते लुक् स्यात् । गार्ग्य: , गार्गकम् । आपत्यस्येत्यव -काम्पील्यकः । तद्धितेति किम् ? वात्स्येन । अनातीति किम ? गाायणः ।।९२।।
बिल्वकीयादेरीयस्य ।।४।९३॥ नडादिस्था बिल्वादय: , तेषां कीयप्रत्ययान्तानाम् ईयस्य तद्धितयस्वरे लुक् स्यात् । बैल्वका: , वैणुका: । बिल्वकीयादेरिति किम् ? नाडकीय: ।।९३॥
न राजन्य-मनुष्ययोरके ।२।४।९४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org