SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं ___ अनार्षे वृद्धे विहितौ यावणिञौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्तस्य ष्यः स्यात् । कारीषगन्ध्या , बालाक्या । अनार्ष इति किम ? वासिष्ठी । वृद्ध इति किम् ? आहिच्छत्री । अणित्र इति किम् ? आतभागी । बहुस्वरेति किम् ? दाक्षी । गुरूपान्त्यस्येति किम् ? औपगवी । अणिञन्तस्य सतो बहुस्वरादिविशेषणं किम् ? दौवार्या , औडुलोम्या ।।७८|| कुलाख्यानाम् ।२।४।७९॥ कुलमाख्यायते यकाभिस्तासामनार्षवृद्धाणिञन्तानामन्तस्य स्त्रियां ष्य: स्यात् । पौणिक्या , गौप्त्या । अनार्ष इत्येव-गौतमी ।।७९।। क्रौड्यादीनाम् ।२।४।८०॥ क्रौडि इत्यादीनामणिञन्तानामन्तस्य स्त्रियां ष्य: स्यात् । क्रौड्या , लाड्या ||८|| भोज-सूतयोः क्षत्रिया-युवत्योः ।।४।८१॥ अनयोरन्तस्य यथासंख्यं क्षत्रिया-युवत्योः स्त्रियो: ष्य: स्यात् । भोज्या क्षत्रिया , सूत्या युवतिः । अन्या तु भोजा , सूता ॥८१।। दैवयज्ञि-शौचिवृक्षि-सात्यमुनि-काण्ठेविद्धेर्वा ।।४।८२॥ एषाम् इञन्तानां स्त्रियामन्तस्य ष्यो वा स्यात्। दैवयझ्या , दैवयज्ञी ; शौचिवृक्ष्या , शौचिवृक्षी ; सात्यमुग्र्या , सात्यमुग्री ; काण्ठेविद्ध्या , काण्ठेविद्धी ।।८२।। घ्या पुत्र-पत्योः केवलयोरिच तत्पुरुषे ।२।४।८३॥ मुख्य आबन्तष्य: पुत्र-पत्योः केवलयोः परयोस्तत्पुरुष समासे ईच् स्यात् । कारीषगन्धीपुत्रः , कारीषगन्धीपतिः । ष्येति किम् ? इभ्यापुत्र: । केवलयोरिति किम् ? कारीषगन्ध्यापुत्रकुलम् ।।८३।। बन्धौ बहुव्रीहौ ।२।४।८४॥ मुख्य आबन्तष्यो बन्धौ केवले परे बहुव्रीहावीच् स्यात् । कारीषगन्धीबन्धुः । केवल इत्येव-कारीषगन्ध्याबन्धुकुलः । मुख्य इत्येव-अतिकारीषगन्ध्याबन्धु: ॥८४|| मात-मातृ-मातृके वा ।।४।८५॥ मुख्य आबन्तष्यो मातादिषु केवलेषु परेषु बहुव्रीहावीज् वा स्यात् । कारीष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy