________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
कुक्कुटी , वृषली , नाडायनी , कठी । जातेरिति किम् ? मुण्डा । यान्तादिवर्जनं किम् ? क्षत्रिया । खट्वा । शूद्रा । आदित्येव-आखुः ।।५४||
पाक-कर्ण-पर्ण-वालान्तात् ।।४।५५॥ पाकाद्यन्ताया जाते: स्त्रियां ङी: स्यात् । ओदनपाकी , आखुकर्णी , मुद्गपर्णी , गोवाली । जातेरित्येव-बहुपाका यवागूः ।।५५||
असत्-काण्ड-प्रान्त-शतैकाश्चः पुष्पात् ।२।४॥५६॥ सदादिवर्जेभ्य: परो य: पुष्पशब्दस्तदन्ताज्जाते: स्त्रियां ङी: स्यात् । शङ्खपुष्पी । सदादिवर्जनं किम् ? सत्पुष्पा , काण्डपुष्पा , प्रान्तपुष्पा , शतपुष्पा , एकपुष्पा , प्राक्पुष्पा ॥५६।।
असम्-भस्त्रा-ऽजिनैक-शण-पिण्डात् फलात् ।।४।५७॥ समादिवर्जेभ्यो य: फलशब्दस्तदन्ताज्जाते: स्त्रियां ङी: स्यात् । वासीफली । समादिप्रतिषेधः किम् ? संफला , भलाफला , अजिनफला , एकफला , शणफला , पिण्डफला ओषधिः ।।५७||
अनञो मूलात् ।।४।५८॥ नवर्जात् परो यो मूलस्तदन्ताजाते: स्त्रियां ङी: स्यात् । दर्भमूली , शीर्षमूली । अनत्र इति किम् ? अमूला ||५८।।
धवाद् योगादपालकान्तात् ।।४।५९॥ धवो भर्ता , तद्वाचिन: सम्बन्धात् स्त्रीवृत्ते: पालकान्तशब्दवर्जात् ङी: स्यात् । प्रष्ठी , गणकी । धवादिति किम् ? प्रसूता । योगादिति किम् ? देवदत्तो धवः , देवदत्ता स्त्री स्वतः । अपालकान्तादिति किम् ? गोपालकस्य स्त्री गोपालिका । आदित्येव-सहिष्णो: स्त्री सहिष्णुः ।।५९।।
पूतक्रतु-वृषाकप्यग्नि-कुसित-कुसिदादै च ।२।४।६०॥ एभ्यो धववाचिभ्यस्तद्योगात् स्त्रीवृत्तिभ्यो ङी: स्यात् , ङीयोगे चैषामैरन्तस्य । पूतक्रतायी , वृषाकपायी , अग्नायी , कुसितायी , कुसिदायी ॥६०॥
मनोरौ च वा ।२॥४॥६॥ १. बृहद्वृत्तेलघुवृत्तेश्च हस्तलिखितादर्शेषु वासीफला इति पाठो दृश्यते, किन्तु अन्यत्र व्याकरणेषु दासीफला इति पाठोऽपि दृश्यते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org