________________
स्वोपज्ञलघुवृत्तिविभूषितं ___धववृत्तेर्मनोर्योगात् स्त्रीवृत्तेः ङीर्वा स्यात् , ङीयोगे चास्य औरैश्चान्तस्य । मनावी , मनायी , मनुः ॥६१।। .
वरुणेन्द-रुद्र-भव-शर्व-मृडादान् चान्तः ।२।४।६२॥ एभ्यो धववाचिभ्यो योगात् स्त्रीवृत्तिभ्यो ङी: स्यात् , ङीयोगे आन् चान्त: । वरुणानी , इन्द्राणी , रुद्राणी , भवानी , शर्वाणी , मृडानी ॥६२।।
मातुला-ऽऽचार्योपाध्यायाद् वा ।२।४।६३॥ एभ्यो धववाचिभ्यो योगात् स्त्रीवृत्तिभ्यो ङी: स्यात् , ङीयोगे चाऽऽनन्तो वा । मातुलानी , मातुली ; आचार्यानी , आचार्टी ; उपाध्यायानी , उपाध्यायी ॥६३।।
सूर्याद् देवतायां वा ।।४।६४॥ सूर्याद् धववाचिनो योगाद् देवतास्त्रीवृत्तेीर्वा स्यात् , डीयोगे चाऽऽनन्त: । सूर्याणी , सूर्या । देवतायामिति किम् ? मानुषी सूरी ।।६४।।
यव-यवना-ऽरण्य-हिमाद् दोष-लिप्युरु-महत्त्वे ।।४।६५॥ __ एभ्यो यथासंख्यं दोषादौ गम्ये स्त्रियां ङी: स्यात् , ङीयोगे चाऽऽनन्त: । यवानी , यवनानी लिपिः , अरण्यानी , हिमानी ||६५||
आर्य-क्षत्रियाद् वा ।२।४॥६६॥ आभ्यां स्त्रियां ङीर्वा स्यात् , ङीयोगे चाऽऽनन्तः । आर्याणी , आर्या ; क्षत्रियाणी , क्षत्रिया ॥६६।।
यत्रो डायन् च वा ।।४।६७॥ यजन्तात् स्त्रियां ङी: स्यात् , ङीयोगे च डायनन्तो वा स्यात् । गार्गी , गाायणी ॥६७।।
लोहितादिर्शकलान्तात् ।२।४।६८॥ लोहितादेः शकलान्तात् यजन्तात् स्त्रियां ङी: स्यात् , तद्योगे च डायनन्त: । लौहित्यायनी , शाकल्यायनी ।।६८।।
पा-ऽवटाद् वा ।२।४।६९॥ षान्ताद् अवटाच्च यान्तात् स्त्रियां ङीर्वा स्यात् , ङीयोगे च डायनन्तः । १. तद्योगे पा१ ।। २. सक बृहद्वृत्तिं विना सर्वत्र ।। ३. साक बृहद्धृत्तिं विना सर्वत्र ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org