SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं , अरुभिन्नी । कृतादिवर्जनं किम् ? दन्तकृता, दन्तमिता , दन्तजाता , दन्तप्रतिपन्ना ॥४६।। अनाच्छादजात्यादेर्नवा ।२।४।४७॥ आच्छादवर्जा या जातिस्तदवयवात् कृतादिवर्जात् क्तान्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात् । शाङ्गरजग्धी , शाङ्गरजग्धा । आच्छादवर्जनं किम् ? वस्त्रच्छन्ना । जात्यादेरिति किम् ? मासजाता । अकृताद्यन्तादित्येव-कुण्डकृता ।।४७|| पत्युर्नः ।२।४॥४८॥ पत्यन्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात् , तद्योगेऽन्तस्य न् च । दृढपत्नी , दृढपति: । मुख्यादित्येव-बहुस्थूलपति: पुरी ॥४८॥ सादेः ।२।४॥४९॥ सपूर्वपदात् पत्यन्तात् स्त्रियां ङीर्वा स्यात् , तद्योगेऽन्तस्य न च । ग्रामस्य पति: ग्रामपत्नी , ग्रामपति: । सादेरिति किम् ? पतिरियम् , ग्रामस्य पतिरियम् ||४९|| सपत्न्यादौ ।२।४५०॥ एषु पतिशब्दात् स्त्रियां ङी: स्याद् न् चान्तस्य । सपत्नी , एकपत्नी ।।५०|| ऊढायाम् ।२।४॥५१॥ पत्यु: परिणीतायां स्त्रियां ङी: स्यात् , न् चाऽन्तस्य । पत्नी , वृषलस्य पत्नी ।।५।। पाणिगृहीतीति ।२।४।५२॥ पाणिगृहीतीप्रकारा: शब्दा ऊढायां स्त्रियां ड्यन्ता निपात्यन्ते । पाणिगृहीती , करगृहीती । ऊढायामित्येव-पाणिगृहीताऽन्या ॥५२।। __ पतिवत्न्यन्तर्वत्न्यौ भार्या-गर्भिण्योः ।२।४।५३॥ भार्या अविधवा स्त्री , तस्यां गर्भिण्यां च यथासंख्यम् एतौ निपात्येते ॥५३।। जातेरयान्त-नित्यस्त्री-शूद्रात् ।२।४।५४॥ जातिवाचिनोऽदन्तात् स्त्रियां ङी: स्यात् , न तु यान्त-नित्यस्त्री-शूद्रात् । १. 'मासयाता' इति बृहद्वृत्तौ । दृश्यताम् ३।१११५२।। २. चास्यान्तस्य पा१,२ खं१ ।। ३. शब्दाः खं२ विना नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy