________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
दीर्घजचा ; समदन्ती , समदन्ता ; चारुकर्णी , चारुकर्णा ; तीक्ष्णशृङ्गी , तीक्ष्णशृङ्गा ; मृद्वङ्गी , मृद्वङ्गा ; सुगात्री , सुगात्रा ; सुकण्ठी , सुकण्ठा । पूर्वेण सिद्धे नियमार्थमिदम् , तेन बहुस्वर-संयोगोपान्त्येभ्योऽन्येभ्यो मा भूत् -सुललाटा , सुपार्था ।।३९||
नख-मुखादनाम्नि ।२।४॥४०॥ सहादिवर्जपूर्वपदाभ्यां स्वाङ्गाभ्यामाभ्याम् असंज्ञायामेव स्त्रियां डीर्वा स्यात् । शूर्पनखी , शूर्पनखा ; चन्द्रमुखी , चन्द्रमुखा । अनाम्नीति किम् ? शूर्पणखा , कालमुखा ॥४०॥
पुच्छात् ।२।४॥४१॥ सहादिवर्जपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां ङीर्वा स्यात्। दीर्घपुच्छी , दीर्घपुच्छा
||४१||
___ कवर-मणि-विष-शरादेः ।२।४॥४२॥ एतत्पूर्वपदात् पुच्छात् स्त्रियां ङीनित्यं स्यात् । कबरपुच्छी , मणिपुच्छी , विषपुच्छी , शरपुच्छी ॥४२।।
पक्षाच्चोपमादेः ।२।४।४३॥ ___ उपमापूर्वात् पक्षात् पुच्छाच्च स्त्रियां ङी: स्यात् । उलूकपक्षी शाला , उलूकपुच्छी सेना ।।४३||
क्रीतात् करणादेः ।२।४।४४॥ करणादेः क्रीतान्ताददन्तात् स्त्रियां ङी: स्यात् । अश्वक्रीती । आदेरिति किम् ? अश्वेन क्रीता ॥४४॥
तादल्पे ।२।४॥४५॥ क्तान्तात् करणादेरल्पेऽर्थे स्त्रियां ङी: स्यात् । अभ्रविलिप्ती द्यौः , अल्पाभ्रेत्यर्थः । अल्प इति किम् ? चन्दनानुलिप्ता स्त्री ।।४५||
स्वाङ्गादेरकृत-मित-जात-प्रतिपन्नाद् बहुव्रीहेः ।२।४।४६॥ स्वाङ्गादेः कृतादिवर्जात् क्तान्ताद् बहुव्रीहे: स्त्रियां ङी: स्यात् । शङ्खभिन्नी १. उपमानपूर्वात् पा३ बृहद्वृत्तौ च । उपमानात् पूर्वात् खं१ । “उपमीयतेऽनयेति बाहुलकात् 'उपसर्गादात:' [५।३।११०] इत्यङ्'' इति न्याससारसमुद्धारे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org