SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं , धूलि: । अक्त्यर्थादिति किम् ? कृति: , अकरणिः , हानिः ॥३२॥ पद्धतेः ।।४॥३३॥ अस्मात् स्त्रियां ङीर्वा स्यात् । पद्धती , पद्धतिः ॥३३।। शक्तेः शस्त्रे ।२।४॥३४॥ अस्माच्छो स्त्रियां ङीर्वा स्यात् । शक्ती , शक्तिः । शस्त्र इति किम् ? शक्तिः सामर्थ्यम् ।।३४|| स्वरादुतो गुणादखरोः ।।४।३५॥ स्वरात् परो य उत् तदन्ताद् गुणवचनात् खरुवर्जात् स्त्रियां ङीर्वा स्यात् । पटवी , पटुः । विभ्वी , विभुः । स्वरादिति किम् ? पाण्डुर्भूमिः । गुणादिति किम् ? आखु: स्त्री । अखरोरिति किम् ? खरुरियम् ॥३५।। श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च ।२।४॥३६॥ एभ्यो वर्णवाचिभ्यः स्त्रियां ङीर्वा स्यात् , तद्योगे तो न च । श्येनी , श्येता ; एनी , एता ; हरिणी , हरिता ; भरणी , भरता ; रोहिणी , रोहिता । वर्णादिति किम् ? श्येता , एता ॥३६।। नः पलिता-ऽसितात् ।२।४॥३७॥ त इति चेति चानुवर्तते , आभ्यां स्त्रियां ङीर्वा स्यात् , तद्योगे त: क्न् च । पलिक्नी , पलिता ; असिक्नी , असिता ॥३७।। असह-न-विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः ।२॥४॥३८॥ सहादिवर्जपूर्वपदं यत् स्वाङ्गं तदन्तात् क्रोडादिवर्जाद् अदन्तात् स्त्रियां ङीर्वा स्यात् । पीनस्तनी , पीनस्तना ; अतिकेशी , अतिकेशा माला । सहादिवर्जनं किम् ? सहकेशा , अकेशा , विद्यमानकेशा । क्रोडादिवर्जनं किम् ? कल्याणक्रोडा , पीनगुदा , दीर्घवाला । स्वाङ्गादिति किम् ? बहुशोफा , बहुज्ञाना , बहुयवा ॥३८॥ नासिकोदरौष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गा-ऽङ्ग-गात्र-कण्ठात् ।।४।३९॥ सहादिवर्जपूर्वपदेभ्य एभ्य: स्वाङ्गेभ्य: स्त्रियां ङीर्वा स्यात् । तुङ्गनासिकी , तुङ्गनासिका ; कृशोदरी , कृशोदरा ; बिम्बोष्ठी , बिम्बोष्ठा ; दीर्घजङ्घी , १. नश्च पा१ ।। २. त क्नः खं१ पा१ । तः क्नः पा३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy